________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥३९२॥
000000000000000000000
भूए । संकरसं परिहरिय कंठे ॥ ६॥ व्याख्या-कतरः कोऽयमागच्छति? अतिशयेन क इति कतरः, एकारः प्राकृतत्वात् , परमयं कीदृशः? दीप्तरूपो बीभत्सरूपो दीप्तवचनं बीभत्सार्थवाचकं. पुनः। कीदृशः? कालः कालवर्णः, पुनः कीदग् ? विकरालो विकृतांगोपांगधरः, लंबोष्टदंतुरत्वादिविकारयुक्तः, पुनः कीदृशः? पोकनाशः, पोक्का अग्रे स्थूलोन्नता मध्ये निम्ना चिप्पट्टा नासा यस्य स पोकनाशः, पुनः कीदग् ? अवमचेलः, अवमान्यसाराणि चेलानि वस्त्राणि यस्य सोऽवमचेलः, मलाविलत्वेन जीर्णत्वेन त्याज्यप्रायवस्त्रधारीत्यर्थः, पुनः कीदृशः? पांशुपिशाचभूतः, पांशुना रजसा पिशाचसृतः पांशुपिशाचभूतः, धूल्या व्याप्तावगुंठितशरीरत्वेन मलिनवस्त्रत्वेन भूततुल्य इत्यर्थः. एतादृशः कोऽयं शंकरदृष्यं कंठे परिधृत्य अत्रागच्छति? समीपे आगतं दृष्ट्वा एवमूचुरित्यर्थः, शंकर उत्करटकस्तत्रस्थं दृष्यं वस्त्रं शंकरदृष्यं, यद्यपि तस्य साधोवस्त्रमुत्करटकस्य नास्ति, तथापि तेषामत्यंतघृणोत्पादकत्वेन | तैरुक्तं, कोऽयमुत्करटकस्य वस्त्रं कंठे परिधृत्य पिशाचसदृशो भ्रमन्नत्रागच्छति? स हि हरिकेशीसाधुः | कुत्रापि आत्मीयमुपकरणं न मुंचति, सर्व वस्त्रोपध्युपकरणादिकं गृहीत्वैव भिक्षाद्यर्थं भ्रमतीति भावः.
o@0000000000@@@@@@@@@
।।३९२॥
For Private And Personal Use Only