________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३९९ ॥
www.kobatirth.org
रिया ॥ ४ ॥ व्याख्या - तं हरिकेशबलं साधुं एजंतं आयांतं पासिऊण दृष्ट्वा अनार्या दुष्टा ब्राह्मणा उपहसंति, उपहासं कुर्वंति कीदृशं तं ? तपसा दुर्बलीकृतं पुनः कीदृशं तं ? प्रांतोपध्युपकरणं जीर्णवस्त्रोपधिधारकं, प्रांतं जीर्णं मलिनत्वादिना असारं उपधिर्वर्षाकल्पादिः, स एव उपकरणं धर्मोपष्टंभहेतुरस्येति प्रांतोपध्युपकरणस्तं प्रांतोपभ्युपकरणं. ॥ ४ ॥
॥ मूलम् ॥ -जाईमयपडिथद्धा । हिंसगा अजिइंदिया | अवंभचारिणो बाला । इमं वयणमवी ॥ ५ ॥ व्याख्याते ब्राह्मणा बाला विवेकविकला इदं वचनमब्रुवन् कीदृशास्ते ? जातिमद् प्रतिस्तब्धाः, जातिमदेन ब्राह्मण्युद्भवत्वेन यो मदोऽहंकारस्तेन प्रतिस्तब्धा अनम्रा जातिमदप्रतिस्तब्धाः. पुनः कीदृशाः ? हिंस्रका जीवहिंसाकरणशीलाः पुनः कीदृशाः ? अजितेंद्रिया विषयासक्ताः, पुनः कीदृशाः ? अब्रह्मचारिणो मैथुनाभिलाषिणः, अब्रह्मणि कामसेवायां चरंति रमंते इति अब्रह्मचारिणः कुशीला इत्यर्थः ॥ ५ ॥ ते ब्राह्मणाः किमब्रुवन्नित्याह
॥ मूलम् ॥ कयरे आगच्छइ दित्तरूए । काले विकराले पोक्कनासे ॥ ओमचेले पंसुपिसाय
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥ ३९९॥