________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandie
उत्तरा
सटीक
॥३९॥
000060000000000000
वान्. एषणमेषणा आहारग्रहणं, तत्र समितिरेषणासमितिस्तत्र यत्नवान्. एवं भाषासमितौ भाषाव्यवहारे यत्नवान्. 'भासाए' इत्यत्र एकार आर्षत्वात् तिष्टति. उच्चाररसमितौ मूत्रपुरीषादिपरिष्टापनविधौ यत्नवान्, पुनः कीदृशो हरिकेशीबलः साधुः? आदाननिक्षेपे वस्त्रपात्राद्युपकरणग्रहणमोचने सं सम्यकप्रकारेण यतः संयतः संयमी. पुनः कीदृशः? सुतरामतिशयेन समाधितः समाधिसहितः, चित्तस्थैर्यसहित इत्यर्थः. पंचसमितियुक्तः स साधुरस्तीत्यर्थः ॥२॥
॥ मूलम् ॥-मणगुत्तो वयगुत्तो । कायगुत्तो जिइंदिओ ॥ भिक्खट्ठा बंभइजमि । जन्नवाडमुवडिओ ॥३॥ व्याख्या-पुनः कीदृशः? मनोगुप्त्या गुप्तो मनोगुप्तः, पुनर्वचनगुप्त्या गुतो वचोगुप्तः, पुनः कायगुप्त्या गुप्तः कायगुप्तः, इत्यत्र सर्वत्र मध्यमपदलोपीसमासः. पुनर्जितेंद्रियः, एतादृशो हरिकेशबलः साधुर्भिक्षार्थ ब्राह्मणानां ईज्या ब्राह्मणेज्या, तस्यां ब्राह्मणेज्यायां ब्राह्मणयज्ञपाटके उपस्थितः, यत्र ब्राह्मणा यज्ञ कुर्वति तत्र यज्ञपाटकांतिके प्राप्तः ॥३॥
॥ मूलम् ॥-तं पासिऊणमजतं । तवेण परिसोसियं ॥ पंतोवहिओपगरणं । उवहसंति अणा
10000000000000000000
॥३९॥
For Private And Personal Use Only