________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsur Gyarmandie
उत्तरा
सटीक
॥३८८
000000000000000000064
महर्षे त्वं मत्करं करेण गृहाण? मुनिना भणितं भद्रे! बुद्धजननिंदितयानया संकथयालं. अपि च ये साधव एकस्यां वसतौ स्त्रीभिः समं वासमपि नेच्छंति, ते सांप्रतं करं करेण कथं गृहंति? सिद्धिवधूबद्धरागाः साधवः कथमशुचिपूर्णासु युवतीषु रज्यंते? अथ तेन यक्षेण तस्य महर्षेः शरीरं प्रच्छाद्य तत्सदृशं भिन्नरूपं विकुर्व्य तस्याः करं करेण जगृहे. एकरात्रिं यावद्रक्षिता, प्रभाते यक्षो दूरीभूतः, स्वाभाविकरूपो यतिस्तामाह, भद्रे! अहं संयमी नैव स्त्रीस्पर्श त्रिधा शुध्ध्या करोमि, न मया त्वत्करः करेण गृहीतः, किंतु मद्भक्तेन यक्षेणेव त्वं विडंबिता, स च सांप्रतं दूरे गतः, मत्तस्त्वं दूरे भव? महर्षिणेत्युक्ता सा प्रभाते सर्व स्वप्नमिव मन्यमाना भृशं विखिन्ना राज्ञो गृहे गता, सर्व तत्स्वरूपं राज्ञ आचख्यौ. तदानीं राज्ञः पुर उपविष्टेन रुद्रदेवपुरोहितेनोक्तं, राजन्नियं ऋषिपत्नी, तेन मुक्ता ब्राह्मणाय दीयते, ततो राज्ञा सा तस्यैव दत्ता. पुरोहितोऽपि तया सह विषयसुखमनुभवन् कियंतं कालं निनाय. अन्यदा तस्या यज्ञपत्नीत्वकरणार्थं यज्ञस्तेन कर्तुमारब्धः, तत्र यज्ञमंडपे देशांतरेभ्योऽनेकभट्टाः समायाताः, तदर्थ भोजनसामग्री तत्र प्रगुणीकृता. अस्मिन्नवसरे तत्र स महर्षिर्मासोपवासपा
00000000000000000000
॥३८॥
For Private And Personal Use Only