________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा- गत्वा अद्य तान् सेवामहे, इत्युक्त्वा द्वावपि तौ तत्र गतौ. विकथादिप्रमादपरास्ते तत्र ताभ्यां
दृष्टाः, तेभ्यो विरक्तौ तौ यक्षी पश्चात्तत्रागत्य हरिकेशीबलं महामुनिं प्रणमतः, प्रत्यहं सेवेतेस्म. अन्यदा ॥३८७॥
तत्र यक्षायतने वाराणसीपतिकोशलिकराजपुत्री भद्रानाम्नी नानाविधपरिजनानुगता पूजासामग्रों | कृत्वा गृहोत्वा समायाता. यक्षप्रतिमा पूजयित्वा प्रदक्षिणां कुर्वती मलक्लिन्नवस्त्रगात्रं दुस्सहतपःकरणकृशं कुरूपं तं महामुनिं दृष्ट्वा थूत्कृतं निससर्ज. यक्षेण चिंतितं इयं महामुनि तिरस्कुरुते, अतो मया शिक्षणीयेति. अधिष्टिता तेन यक्षेण, असमंजसं प्रलपंती दासीभिरुत्पाव्य राजगृहं नीता, राज्ञा मांत्रिका वैद्याश्चाकारिताः, तैश्चिकित्सायां कृतायामपि न तस्याः कश्चिद्विशेषो जातः. अथ तस्या मुखे संक्रांतो यक्षः स्पष्टमेवमाह-अनया मदायतनस्थितो महानुभावः संयमी निंदितः, यदीयं | तस्य संयमिनः पाणिग्रहणं कुरुते, तदा मयास्या वपुर्मुच्यते, नान्यथेति. चिंतितं राज्ञा ऋषिपत्नी
भूत्वापीयं जीवत्विति प्रतिपन्नं यक्षवचनं राज्ञा. सा स्वस्थशरीरा जाता, सर्वालंकारभूषिता गृहात18 विवाहोपकरणा महाविभूत्या यक्षायतने गता, तस्य महर्षेः पादौ प्रणम्य एवं विज्ञप्तिं चकार. हे
00000000000000000000
1000000000000000000000
॥३८५
For Private And Personal Use Only