SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥३८६॥ 0000000000000000000000 रान् परबालान् पश्यति, परं मध्ये समायातुं न शक्नोति. तस्मिन्नवसरे तत्र सपों निर्गतः, सविष इति कृत्वा चांडालैारितः. पुनस्तत्र प्रलंबमलशिकं निर्गतं, निर्विषमिति कृत्वा तैर्न विनाशितं. तादृशमारणं दृष्ट्वा तेन बलबालेन चिंतितं, निजेनैव दोषेण प्राणिनः पराभवं सर्वत्र प्राप्नुवंति. यद्यहं सर्पसदृशः सविषस्तदा पराभवपदं प्राप्तः, यद्यलसिकवन्निरपराधोऽभविष्यं, तदा न मे कश्चित्पराभवोऽभविष्यदिति सम्यग्भावयतस्तस्य जातिस्मरणमुत्पन्नं, विमानवाससुखं स्मृतिमार्गमागतं, जातिमदविपाकोऽपि ज्ञातः, संवेगमागतेन तेन दीक्षा गृहीता.स हरिकेशीबलः शुद्धक्रियां पालयन् षष्टाष्टमदशमद्वादशमासार्धमासादितपस्तपन् क्रमेण विहारं कुर्वन् वाराणसी नगरी प्राप्तः. तत्र तिंदुकवने मं-16 डिकयक्षप्रासादे स्थितो मासक्षपणादितपः करोति. तद्गुणावर्जितश्च यक्षस्तं महर्षि निरंतरं सेवते. अन्यदा तत्र वने एकोऽपरो यक्षः प्राघूर्णकः समागतः, तेन मंडिकयक्षस्य पृष्टं कथं त्वं मद्वने सांप्रतं नायासि? तेनोक्तमहमिहस्थितमिमं मुनि सेवे. एतद्गुणावर्जितश्चान्यत्र गंतुं नोत्सहे. सोऽप्यागंतुको यक्षस्तद्गुणावर्जितो बभूव. आगंतुकयक्षेण मंडिकयक्षस्योक्तं एतादृशा मुनयो मद्वनेऽपि संति, तत्र 3000000000000000000000 ॥३८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy