________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥३७९॥
990090669
www.kobatirth.org.
कानां कथंभूतः कोष्टागारः ? सुरक्षितः, सुतरामतिशयेन चौरमृषकादिभ्य उपद्रवेभ्यो रक्षितः सुरक्षितः पुनः कीदृशः कोष्टागारः ? नानाधान्यप्रतिपूर्णः, चतुर्विंशतिधान्यैः प्रतिपूर्णो भृतः अथ बहुश्रुतः कीदृशः ? सुरक्षितः, सुतरामतिशयेन गच्छसंघाटस्थमुनिभिर्यत्नेन रक्षितः पुनर्नानाप्रका रैरंगोपांगादिरूपैर्धान्यैः प्रतिपूर्ण इत्यर्थः ॥ २६ ॥
॥ मूलम् ॥ - जहा से दुमाण पवरा । जंबूनाम सुदंसणा || अगाढियस्त देवस्त । एवं भवइ बहुस्सु ॥ २७ ॥ व्याख्या - यथा द्रुमाणां मध्ये जंबूनामा सुदर्शना इत्यपरनामा द्रुमो वृक्षः प्रवरः प्रधानः शोभते, तथा बहुश्रुतोऽपि सर्वमुनीनां मध्ये प्रधानो विराजते. स च जंबू सुदर्शनानामा वृक्षोऽनार्द्धिकस्य जंबूद्वीपाधिष्ठातृदेवस्य वर्तते तस्य हि जंबूद्वीपाधिपाश्रितत्वेन सर्ववृक्षेभ्यः प्रधानत्वं ज्ञेयमित्यर्थः बहुश्रुतोऽपि मिष्टफलसदृशसिद्धांतार्थफलप्रदः, देवादिभिरभिगम्यः ॥ २७ ॥
॥ मूलम् ॥ - जहा सा नईण पवरा । सलिला सागरंगमा ॥ सीया नीलवंतप्पवाहा । एवं हवइ बहुस्सु ॥ २८ ॥ व्याख्या -यथा सा इति प्रसिद्धा नदीनां मध्ये सीतानाम्नी नदी प्रवरा प्र
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ३७९