________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
उत्तरा
सटो
॥३८०॥
16000000OOGSCREO00020€
धाना शोभते, तथा बहुश्रुतोऽपि शोभते. कथंभूता सीता नदी? सलिला, सलिलं पानीयमस्या अस्तीति सलिला, नित्यनीरा. पुनः कथंभूता सीता? सागरंगमा, सागरं गच्छतीति सागरंगमा. पुनः | कीदृशा सीता? नीलवंतप्पवाहा, नीलवंतपर्वतात् प्रवाहो यस्याः सा नीलवत्प्रवाहा, नीलवत्पर्वता| दुत्तीर्णेत्यर्थः. बहुश्रुतोऽपि साधूनां मध्ये प्रधानः, निर्मलजलतुल्यसिद्धांतसहितः. पुनः सागरमिव मुक्तिस्थानंगामी. पुनर्बहुश्रुतो नीलवत्पर्वतसदृशोन्नतकुलात्प्रसूतः, उत्तमकुलप्रसूतो हि सद्विद्याविनयौदार्यगांभीर्यादिगुणयुक् स्यात् ॥ २८॥
॥ मूलम् ॥-जहा से नगाण पवरे । सुमहं मंदरे गिरी ॥ नाणोसहिपजलिए। एवं हवइ बहुस्सुए ॥ २९ ॥ व्याख्या-यथा स इति प्रसिद्धो नगानां पर्वतानां मध्ये सुतरामतिशयेन महानुच्चैस्तरो मंदरो मेरुगिरिमेंरुपर्वतः शोभते, तथा बहुश्रुतोऽपि शोभते. कथंभूतो मेरुः? नानौषधीप्रज्ज्वलितः, नानाप्रकाराभिरौषधीभिःशल्यविशल्यासंजीवनीसंरोहिणीचित्रावल्लीसुधावल्लीविषापहारिणीशस्त्रनिवारिणीभूतनागदमन्यादिभिर्मूलीभिः प्रज्ज्वलितो जाज्वल्यमानः. एवं बहुश्रुतः सर्वसाधूनां प्रवरो
0000000000000000000
॥३०
For Private And Personal Use Only