________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥३७८॥
॥ मूलम् ॥-जहा से उडुवई चंदे । नक्खत्तपरिवारिए ॥ पडिपुन्ने पुण्णमासीए । एवं हवड बहुस्सुए ॥ २५॥ व्याख्या-यथा पूर्णमास्यां राकायां उडुपतिश्चंद्रो भवति, जनाहादको भवति, चंदति आह्लादयतीति चंद्रः, अन्वर्थनामा भवति. तथा बहश्रुतोऽपि पूर्णमास्यां सम्यक्त्वप्राप्तौ प्रतिपूर्णः, उडुपतिरिव चंद्रो भवति, भव्यजनाह्रादको भवति. कोश उडुपतिः? नक्षत्रैर्ग्रहतारकादिभिः परिवृतः, परिवारो जातोऽस्येति परिवारित इति वा. पुनः कीदृश उडुपतिः? प्रतिपूर्णः षोडशकलाभिर्युक्तः, पू. गों मासः संसारो यस्याः सा पूर्णमासी, सम्यक्त्वलब्धिरूपायां पूर्णमास्यां बहुश्रुतरूप उडुपतिर्भव्यजनाह्लादको भवतीति भावः, पुनः कीदृशो बहुश्रुत उडुपतिः?साधुभिर्नक्षत्रैरिव परिवारितः सहितः, पुनः कीदृशो बहुश्रुत उडुपतिः? प्रतिपूर्णः सर्वधर्मकलाभिः संपूर्ण इत्यर्थः. ॥ २५॥
॥ मूलम् ॥-जहा से सामाइयाणं । कुट्ठागारे सुरक्खिए ॥ नाणधम्मपडिपुण्णे। एवं हवइ बहुस्सुए ॥ २६ ॥ व्याख्या-यथा स इति प्रसिद्धः सामाजिकानां महागृहस्थानां कोष्टागारो विराजते, तथा बहुश्रुतोऽपि विराजते. समाजो जनसमूहस्तमहंतीति सामाजिकाः, तेषां सामाजिकानां कौटुंबि
0000000000000000000000
॥३७८
For Private And Personal Use Only