________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३७७ ॥
199996
www.kobatirth.org
देवेषु सर्वसाधुषु अधिपतिरधिकः, सर्वसाधूनधिकं यथास्यात्तथा पाति रक्षतीति देवाधिपतिः 'रिसी हि देवा य समं विवित्ता' इत्युक्तेः देवा अधिकं पांति रक्षति सेवां कुर्वत्युपद्रवेभ्यो रक्षति हरिकेशबलसाधुवत् वैयावृत्यं कुर्वतीति देवाधिपतिः, देवैरपि पूज्यते इत्यर्थः.
॥ मूलम् ॥ - जहा से तिमिरविद्धंसे । उत्तिते दिवायरे ॥ जलते इव तेएणं । एवं हवइ बहुस्सु ॥ २४ ॥ व्याख्या- यथा स इति प्रसिद्ध उत्तिष्टन् उद्गच्छन् दिवाकरः सूर्यस्तेजसा ज्वलन् ज्वालाभिरुत्सर्पन् इव विराजते, तथा बहुश्रुतोऽपि राजते. तथा कथंभूतः सूर्यः ? तिमिरमंधकारं विध्वंसते इत्येवं शीलस्तिमिरविध्वंसी, अथवा तिमिरस्य विध्वंसो यस्मात् स तिमिरविध्वंसी. अथ बहुश्रुत एव दिवाकरः कीदृग्स्यात् ? कथंभृतो बहुश्रुतसूर्यः ? तिमिरं मिथ्यात्वांधकारं विध्वंसयतीति तिमिरविध्वंसी. किं कुर्वन् ? उत्तिष्टन् क्रियानुष्ठानादौ अप्रमादीभवन् पुनः कीदृशो बहुश्रुतदिवाकरः ? किं कुर्वन्निव तेजसा द्वादशविधतपस्तेजसा माहात्म्येन वा ज्वलन् देदीप्यमानः, परवादिभिर्हष्टुमप्यशक्य इत्यर्थः ॥ २४ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ३७७ ॥