SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक क्षणैर्धर्मेरंतश्चतसृणां गतीनां यस्य स चतुरंत एव चातुरंतः. चतुर्दशरत्नाधिपतिश्चतुर्दशपूर्वरूपाणि रत्नानि, तेषामधिप इत्यर्थः. पुनः कीदृशो बहुश्रुतः?महार्द्धिकः, महत्य ऋद्धय आमाँषधिवप्रौषधिखेलौष॥३७६॥ ध्यादयो यस्य स महार्द्धको लब्धिऋद्धिसहित इत्यर्थः.अथवा महतो ऋद्धिर्ज्ञानसंपत्तिर्यस्य स महर्द्धिकः. ॥मूलम् ॥-जहा से सहस्सक्खे । वजपाणी पुरंदरे ॥ सके देवाहिवई । एवं हवइ बहस्सुए 18/॥ २३ ॥ व्याख्या-यथा स इति प्रसिद्धः शक्र इंद्रो विराजते, तथा बहुश्रुतोऽपि विराजते. कीदृशः | शक्रः? सहस्राक्षः सहस्रमक्षीणि यस्य स सहस्राक्षः सहस्रनेत्रः पुनः कीदृशः? वज्रपाणिर्वज्रशस्वहस्तः. पुनः कीदृशः? पुरंदरः, पुराणि दैत्यनगराणि दारयति विध्वंसयतीति पुरंदरः, दैत्यनगरविध्वंसकः. पुनः कीदृशः? देवाधिपतिः, देवेषु अधिपतिर्देवाधिपतिः, देवेषु अधिककांतिधारी. अथ कीदृशो बहुश्रुतशक्रः? सहस्रमक्षीणि श्रुतज्ञानानि यस्य स सहस्राक्षः, सहस्रसंख्यैर्ने त्रैरिव श्रुतज्ञानभेदैः पश्यतीत्यर्थः. पुनः कीदृशो बहुश्रुतशकः? वज्रपाणिः, वज्र वज्राकारं पाणौ यस्य स वज्रपाणिः, विद्यावतः पूज्यस्य हस्तमध्ये वज्रलक्षणस्य संभवात्. पुनः कथंभूतो बहुश्रुतशकः? देवताधिपतिः, 0000000000000000000 DOGOGOGOGOGO0000000 ॥३७६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy