________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
10000
स तीक्ष्णदंष्ट्रः, अत एव उत्कटो दुर्जयः, पुनः कथंभृतो बहुश्रुतः ? दुःप्रहंसकः, अन्यतीथ्यैर्दुर्धृष्यः, ॥ ३७४ ॥ कलितुमशक्य इत्यर्थः ॥ २० ॥
www.kobatirth.org
900000
॥ मूलम् ॥ – जहा से वासुदेवे । संखचक्कगयाधरे || अप्पडिहयबले जोहे । एवं हवड़ बहुस्सु ॥ २१ ॥ व्याख्या -यथा स प्रसिद्धो वासुदेवोऽप्रतिहतबलः स्यात्, अप्रतिहतं केनाप्यनिवारितं बलं यस्य सोऽप्रतिहतबलः, एवं बहुश्रुतोऽपि केनापि परमतिना अनिवारितबलः स्यात्. कीदृशो वासुदेवः ? शंखचक्रगदाधरः. वासुदेवस्य हि रत्नसप्तकं स्यात्, यतः - चक्कं धणुहं खग्गो । मणी गया होइ तह य वणमाला ॥ संखो सत्त इमाई । रयणाई वासुदेवस्स ॥ १ ॥ अत्र त्रयाणामेव ग्रहणं बहुश्रुतेन साम्यार्थ, सप्तानां मध्ये त्रयाणामेव प्राधान्यमप्यस्ति पुनः कीदृशो वासुदेवः ? योधः, युध्यति शत्रून्प्रति संहरतीति योधः, यदुक्तं युद्धे सूरा वासुदेवा । खमासुरा अरिहंता ॥ तपसूरा अणगारा । भोगसूरा चक्कवट्टी य ॥ १ ॥ वासुदेवो हि खशरीरेण युद्धं कृत्वा शत्रून् जयतीत्यर्थः एवं बहुश्रुतोऽपि वासुदेववत् कीदृशो बहुश्रुतः ? शंखचक्रगदातुल्यानि रत्नत्रयाणि ज्ञानदर्श
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
9000
सटोकं
॥ ३७४ ॥