________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटीक
॥३७३॥
200000000000000000000
बहुश्रुतोऽपि विशेषेण राजते. कथंभूतो वृषभः? तीक्ष्णश्रृंगः, पुनः कथंभूतः? जातस्कंध उत्पन्नधूर्धरणभागः, एतादृशो बलीबई इव बहुश्रुतोऽपि शोभते. कथंभूतो बहुश्रुतः? परपक्षभेदकत्वेन तीक्ष्णे खमतपरमतज्ञानरूपे शास्त्रे एव श्रृंगे यस्य स तीक्ष्णशृंगः, पुनः कथंभूतो बहुश्रुतः? जात उत्पन्नो गणस्य कार्यरूपधुरंप्रति धोरेयिकत्वेन पृष्टः स्कंधो यस्य स जातस्कंधः. पुनः कीदृशो बहुश्रुतः? यथाधिपतिः, यथस्य चतुर्विधसंघस्य अधिपतिर्यथाधिपतिः. एवं बहुश्रुतोऽपि यथाधिपवृषभवत आचार्यादिपदवी प्राप्तः सन् विराजते.
॥ मूलम् ॥-जहा से तिक्खदाढे । उदग्गे दुप्पहंसए ॥ सीहे मियाण पवरे । एवं हवइ बह|स्सुए ॥ २० ॥ व्याख्या-यथा सिंहो मृगाणामरण्यजीवानां मध्ये प्रवरः प्रधानः स्यात्, एवं बहुश्रुतोऽपि सिंह इव अन्यतीर्थीयमृगाणां मध्ये प्रकर्षेण श्रेष्टः स्यात्, कथंभूतः सिंहः? तोक्ष्णदंष्ट्रः, पुनः कीदृशः सिंहः? उदग्र उत्कटकः, पुनः कथंभूतः? दुःप्रहंसको दुरभिभवः, अन्ये वेदुधृष्यो दुःसह इत्यर्थः. बहुश्रुतोऽपि सिंह इव, कथंभूतो बहुश्रुतः? तीक्ष्णदंष्ट्रः, तीक्ष्णाः सप्तनयविद्यारूपा दंष्ट्रा यस्य
0000000000000000000006
३७३१
For Private And Personal Use Only