________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥३७२॥
8.00000000000000000
| नांदीघोषेणोपलक्षितः, अथवा उभयतः पार्श्वद्वयोः शिष्याध्ययनरूपेण नांदीघोषेणोपलक्षितः, अथवा प्रवचनोद्दीपकत्वेन स्वतीयश्चिरं जीवत्वसावित्याद्याशीर्वचनरूपेण नांदीघोषेणोपलक्षितः, परतीयैः पराभवितुमशक्यो भवेत्, तदाश्रितोऽपि संघः केनापि पराभवितुं न शक्यते. ॥१७॥
॥मूलम् ॥-जहा करेणुपरिकिन्ने । कुंजरे सठिहायणे ॥ बलवंते अप्पडिए । एवं हवइ बहुस्सुए ॥ १८॥ व्याख्या-यथा षष्टिहायनः षष्टिवार्षिकः कुंजरो बलवानप्रतिहतः स्यात्, प्रतिद्वंद्विगजैः प्रतिहतुं शक्यो न स्यात्, तथा बहुश्रुतोऽपि. षष्टिवर्षाणि यावद्गजो वर्धमानबलः स्यात्, कथंभृतो गजः? करेणुभिहस्तिनीभिः परिकीर्णः परिवृतः, षष्टिहायनतया कुंजरः स्थिरमतिश्च स्यात्. एवं बहुश्रुतोऽपि उत्पातिक्यादिचतमृभिर्बुद्धिभिर्विद्याभिर्वा सहितो वर्धमानशास्त्रार्थबलः केनापि प्रतिवादिना जेतुं न शक्यते. ॥१८॥
मूलम् ॥-जहा से तिक्खसिंगे । जायखंधे विरायई ॥ वसहे जूहाहिवई । एवं हवइ बहुस्सुए ॥ १९ ॥ व्याख्या-यथा स इति वक्ष्यमाणो वृषभो यूथस्य गोवर्गस्य अधिपो विराजते, एवं
00000000000000000000
॥३७२॥
For Private And Personal Use Only