________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटोक
॥३७१॥
WO0000000@GOO00000000
अश्वेषु आकीर्णः कंथकोऽश्वो गमनेन अत्यंतं प्रधानो भवेत, राजादीनां वल्लभो भवेत्त, तथा बहुश्रुतो सर्वेषां ज्ञानक्रियावां मुनीनां मध्ये परवादिनां वादैरत्रस्तः सम्यगाचारविहारेण विराजमानः स्यात्, सर्वेषां वल्लभो भवेदित्यर्थः ॥ १६ ॥
॥ मूलम् ॥-जहाइन्नसमारूढे । सूरे दढपरक्कमे ॥ उभओ नंदिघोसेणं । एवं हवइ बहुस्सुए ॥ १७ ॥ व्याख्या-पुनर्यथा शूर आइन्नसमारूढः, आकीणों जातिविशुद्धघोटकस्तत्र समारूढ आ| कीर्णसमारूढः, दृढपराक्रमः स्थिरपराक्रमः स्थिरोत्साहः, केनाप्यन्यसुभटेन न अभिभूयते इत्यध्या-1
हारः, न च तंप्रत्याश्रितोऽपि भृत्यादिवर्गः केनाप्यभिभूयते. कथंभूतः स शूरः? उभयतो वामदक्षिणतः, अथवा पृष्टतोऽग्रतो वा नांदीघोषेणोपलक्षितः, नांदी द्वादशतूर्याणि, तेषां द्वादशतूर्याणां घोषो | नांदीघोषस्तेनोपलक्षितः. अथवा त्वं चिरं जीया इत्यादिबंदिजनोच्चारिताशीर्वचनं, तस्य घोषः श| ब्दस्तेनोपलक्षितः. यथैतादृशः शूरः सर्वत्र विजयी स्यात, एवं बहुश्रुतोऽपि साधुर्जिनप्रवचनाश्वारूढः, दृढपराक्रमो दृप्यत्परवादिदर्शनादत्रस्तः, परवादिजये समर्थः, उभयतो दिनरजन्योः स्वाध्यायरूपेण
5000000000000000000000
॥३७१॥
For Private And Personal Use Only