________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोकं
॥३७०॥
DECOCO300696090060636
| कारेण शोभते, पयो धवलं, अथ च पुनः शंखेऽपि धवलेऽत्यंतधवलत्वेन वणों विराजते, एवममुना
प्रकारेण शंखमध्यदुग्धदृष्टांतेन बहुश्रुते भिक्षौ धर्मो यतिधर्मस्तथा कीर्तिः श्रुतं च, एतत्पदार्थत्रयं | खत एव भासते, बहु प्रचुरं श्रुतं श्रुतज्ञानं यस्य स बहुश्रुतः, तथा एवं गुरुकुलवासिनि साधौ बहुश्रुते आश्रयविशेषादत्यंतं शोभते. बहुश्रुते स्थितो धर्मः कीर्तिर्यशश्च मालिन्यं न प्राप्नोति. अत्र कीर्तिर्गुणश्लाघा, यशः सर्वत्र प्रसिद्धत्वं, इत्यनयोः कीर्तियशसोर्लक्षणं ज्ञेयं. ॥१५॥
॥ मुलम् ॥-जहा से कंबोयाणं । आइन्नो कंथये सिया ॥ आसे जवेण पवरे । एवं हवड बहुस्सुए ॥ १६ ॥ व्याख्या-बहुश्रुतः साधुरेवं भवति, एवं विराजते. एवमिति कथं ? यथा कंबोजानां कांबोजदेशोद्भवानामश्वानां मध्ये य आकीर्णः शीलादिगुणैर्व्याप्तो विशुद्धमातृपितृयोनिजत्वेन सम्यगाचारः, खामिभक्तादिशालिहोत्रशास्त्रोक्तगुणप्रयुक्तः. कोदृश आकीर्णः ? कंथकः, लघुपाषाणभृतकुतपनिपतनसंजातशब्दान्न त्रस्यति, अथवा शस्त्रादीनां प्रहाराद्रणे निर्भीकः कंथक उच्यते. पुनः कीदृशः सः? जवेन वेगेन सम्यग्गत्या प्रवरः प्रकर्षेण वरः श्रेष्टः. यथा हि सर्वेषु कांबोजदेशोद्भवेषु
2000000000000000000000
॥३७॥
For Private And Personal Use Only