________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥३६९॥
00000000000000000000
॥ मूलम् ॥-वसे गुरुकुले निच्च । जोगवं उवहाण ॥ पियंतरे पियंवाई। से सिक्खं लध्धुमरिहई ॥ १४ ॥ व्याख्या-स मुनिः शिक्षा लब्धुमहति, शिक्षायै योग्यो भवति. स इति कः? यो गुरुकुले नित्यं वसेत, गुरोः पूज्यस्य विद्यादीक्षादायकस्य वा, कुले गच्छे संघाटके वा नित्यं यावज्जीवं तिष्टेत्, पुनर्यो मुनिर्योगवान्, योगो धर्मव्यापारः, स विद्यते यस्य स योगवान्, अथवा योगोऽष्टांगलक्षणस्तद्वानित्यर्थः. पुनयः साधुरुपधानवान्, उपधानमंगोपांगादीनां सिद्धांतानां पठनाराधनार्थमाचाम्लोपवासनिर्विकृत्यादिलक्षणं तपोविशेषः, स विद्यते यस्य स उपधानवान्, सिद्धांताराधनतपोयुक्त इत्यर्थः. पुनर्यः साधुः प्रियंकरः, आचार्यादीनां हितकारकः, पुनर्यः प्रियवादी, प्रियो वादोऽस्यास्तीति प्रियवादी प्रियभाषी, एतैर्लक्षणैर्युक्तो मुनिः शिक्षा प्राप्तुं योग्यो भवति. ॥ १४ ॥ अथ बहुश्रुतप्रतिपत्तिरूपमाचारं स्तवद्वारेणाह-जहा
॥ मूलम् ॥-संखमि पयं निहितं । दुहाओवि विरायई ॥ एवं बहुस्सुए भिक्खू । धम्मो कित्ती तहा सुयं ॥ १४ ॥ व्याख्या-यथा शंखे निहितं पयो दुग्धं द्विधापि विराजते, उभयप्र
BOOGG0000000000066600€
॥३६९॥
For Private And Personal Use Only