________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥३६७॥
900000000000000000000
रक्षति, दीर्घरोषी न स्यादित्यर्थः ६. मित्रीयमाणं भजते मित्रत्वकर्तारं सेवते, कोऽर्थः? यः कश्चित् | स्वस्मै विद्यादानायुपकारं कुर्यात्तस्मै स्वयमपि प्रत्युपकारं करोति, कृतघ्नो न स्यादित्यर्थः ७. पुनः श्रुतं लब्ध्वा न माद्यति, मदं न करोति ८. इत्यष्टमस्थानं. ॥ ११ ॥
॥ मूलम् ॥ न य पावपरिक्खेवी । न य मित्तेस कुप्पई ॥ अप्पियस्सावि मित्तस्स । रहे कल्लाण भासई ॥ १२ ॥ व्याख्या-च पुनः पापपरिक्षेपी न भवति, पापेन परिक्षिपति तिरस्करोतीत्येवंशीलः पापपरिक्षेपी, समितिगुप्त्यादिषु वयं स्खलनं कृत्वा आचार्यादिभिः शिष्यमाणः सन् आचार्यादीनामेव ममोद्घाटको न भवति ९. न च मित्रेभ्यः कुप्यति, अपराधे सत्यपि मित्रोपरि क्रोधं न करोति १०. पुनयों मित्रस्य, मम मित्रमित्यंगीकृतस्य तस्य अप्रियस्य च, अपराधे सत्यरि पूर्वकृतं सुकृतमनुस्मरन् रहसि अपि कल्याणमेव भव्यमेव भाषते, न च तस्य दूषणं वदतीत्यर्थः ११. ॥ १२ ॥
॥ मूलम् ॥ कलहडमरं वज्जेइ । बुद्धे य अभिजाइगे ॥ हिरिमं पडिसंलीणे । सुविणीइत्ति | वुच्चई ॥ १३ ॥ व्याख्या-पुनर्यः कलहडमरं वर्जयति, तत्र कलहं वाक्ययुद्धं त्यजति, डमरं चपे
0000000000000000000000
॥३६७।
For Private And Personal Use Only