________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा
॥३६६॥
0000000000000000000004
गुरोः शय्यासनात् अनुच्चं, तत्र वर्तितुं स्थातुं शोलं यस्य स नीचावर्ती, गुरोः शय्यातः, गुरोरासनाद्वा नीचे शय्यासने शेते तिष्टति वा इत्यर्थः, पुनयोंऽचपलः, न चपलोऽचपलः, अचपलत्वं चतुर्धा भवति, गत्या अचपलः १, स्थित्या अचपलः २, भाषया अचपलः ३, भावेन अचपलः ४. गत्या अचपलः शीघचारी न भवति १, स्थित्या अचपलस्तिष्टन्नपि शरीरहस्तपादादिकं अचालयन स्थिरस्तिष्टति २, भा-1 षया अचपलोऽसत्यादिभाषी न स्यात् ३, भावेन अचपलः सूत्रे अर्थे अनागते असमाते सत्येव अग्रेतनं न गृह्णाति ४, इति अचपलस्यार्थः २. पुनर्यः अमायी, मायास्यास्तीति मायी, शुभमिष्टान्नाहारादौ आचार्यादीनामवंचकः ३. पुनर्योऽकुतूहलः, न विद्यते कुतूहलं यस्य स अकुतूहलः, कुहकई-18 द्रजालभगलविद्यानाटकादीनां न विलोकक इत्यर्थः. ४. ॥ १०॥
॥मूलम् ॥-अप्पं चाहिक्खिवई। पबंधं च न कुबई ॥ मित्तिजमाणो भयइ । सुयं लब्धं न मजइ ॥ ११ ॥ व्याख्या-पुनयोंऽल्पं अधिक्षिपति, अल्पशब्दोऽत्र अभावार्थः, कमपि न अधिक्षिपति, कमपि कठिनैर्वचनैर्न निर्भर्त्सयतीत्यर्थः ५. च पुनः प्रबंधं न करोति, प्रचुरकालं क्रोधं न
1000000000000000000004
३६६॥
For Private And Personal Use Only