________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ३३ ॥
900000999960
www.kobatirth.org
दृष्टिः कुशिष्यो गुरुणा शास्यमानमात्मानं दासमिव मनुते, अयं मां दासमिव तर्जयतीति मनसि दुःखितो भवत्याचार्यं निंदतीत्यर्थः ॥ ३९ ॥
॥ मूलम् ॥ न कोवए आयरिअं । अप्पानंपि न कोवए । बुद्धोवघाइ न सिया । न सिया नुत्तगवेस ||४०|| व्याख्या - विनीतशिष्य आचार्यं न कोपयेत्तथापरमपि न कोपयेत्तथात्मानमपि न कोपयेत्, पुनः शिष्यो बुद्धोपघात्याचार्यस्योपघातकारी न स्यात् युगप्रधानाचार्योपघातिकुशिष्यवन्न स्यात्, पुनस्तोत्र गवेषकोऽपि न स्यात्, यथा दुर्विनीततुरगः प्राजनकगवेषको भवेत्तथा सुशिष्यो द्रव्यतो | भावतश्च स्तोत्रस्य प्राजनकस्य गवेषको न भवेत्. द्रव्यतोऽत्रं चपेटादि, भावतोऽत्रं व्यथाकारिवचनं ज्ञेयं. अत्र दृष्टांतः कोऽप्याचार्योऽष्टविधगणिसंपत्समन्वितो बहुश्रुतः प्रकृत्यापि शांतः क्षीणजंधाबलः काप ग्रामे स्थितः तत्र कुशिष्याः सततं वैयावृत्यविधिविधानभग्नपरिणामैर्गुरुमारणार्थं सदौषधादिचिंताकारकाणामपि श्रावकाणां पुर इति प्रवदंति गुरवो नाशनं चिकीर्षवः किमप्यौषधादिकं न गृह्णन्ति, इत्युक्त्वांत प्रांतमाहारमानीय गुरवे प्रयच्छंति, वदंति नित्यावस्थायित्वेनात्मनां गृहस्था अतिविशिष्टं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
1999039999999996566
सटीकं
॥ ३३ ॥