________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobarth.org
उत्तरा
सटोकं
॥३६२॥
0000000000000000000
॥ मूलम् ॥-नासीले न विसीले । न सिया अइलोलए ॥ अकोहणे सच्चरई। सिक्खासीलेत्ति बुच्चई ॥ ५॥ व्याख्या-पुनरेतादृशः शिक्षाशील उच्यते, एतादृशः कः? यः सर्वथा अशोलो न स्यात्, न विद्यते शीलं यस्य सः अशीलः शीलरहित इत्यर्थः. पुनयों विशीलो न स्यात् , विरुद्धशीलो विशीलः, अतीचारैः कलुषितव्रतो न स्यात् . यः पुनरतिलोलुपोऽतिरसास्वादलंपटो न स्यात्, अ| थवा अतिलोभसहितो न स्यात् , पुनयोंऽक्रोधनः क्रोधेन रहितः स्यात्, पुनर्यः सत्यरतिः स्यात् , स शिक्षाशीलः स्यादित्यर्थः. हास्यवर्जनं १, दांतत्वं २, परमर्मानुद्घाटनं ३, अशीलवर्जनं ४, विशीलवर्जनं ५, अतिलोलुपत्वनिषेधनं ६,क्रोधस्य अकरणं ७,सत्यभाषणं ८च. एतैरष्टभिः प्रकारैबहुश्रुतत्वं स्यादिति भावः ॥ ५॥ अथ अबहुश्रुतत्वबहुश्रुतत्वहेत्वोरविनीतविनीतयोः स्वरूपमाह
॥मूलम् ॥-अह चउद्दसठाणेहिं । वहमाणे उ संजए ॥ अविणीए वुच्चई सो उ । निवाणं च न गच्छइ॥६॥ व्याख्या-अथ चतुर्दशसु स्थानेषु वर्तमानः संयतोऽविनोत उच्यते, स चाविनीतो। निर्वाणं मोक्षं च न गच्छति, न प्राप्नोति.अथवा निर्वाणं निर्वाणकारणं ज्ञानदर्शनचारित्रलक्षणं रत्नत्रयं
100000000000000000000
॥३६६
For Private And Personal Use Only