________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyarmandie
सडी
॥३६१॥
DO 026000600000000000
स्तंभः, क्रोधः, प्रमादः, रोगः, आलस्यं च. स्तंभादहंकारात् शिष्यो योग्यो न भवति, तथा क्राधादपि शिष्यो योग्यो न भवति. तथा पुनः प्रमादेन मदविषयकषायनिद्राविकथारूपेण उपदेशयोग्यो न स्यात्, तथा रोगेण वातपित्तश्लेष्मकुष्टशूलादिव्याधिना शिक्षाग्रहणाहों न भवति, तथा आलस्येन अनुद्यमेन, चशब्देन एतैः सर्वप्रकारैः. अथवा एतेषां स्थानानां मध्ये एकेनापि स्थानेन शिक्षा न प्राप्यते, गुरूपदिष्टशास्त्रार्थाभ्यासं कर्तुं न शक्नोति, शिक्षालाभस्याभावात् अबहुश्रुतत्वं स्यात्. ॥३॥ अथातनगाथायां बहुश्रुतहेतूनाह
॥ मूलम् ॥-अह अट्टहिं ठाणेहिं । सिखासीलत्ति वुच्चइ ॥ अहस्सिरे सया दंते । न यम|म्ममुदाहरे ॥४॥ व्याख्या-अथानंतरमेतैरष्टभिः स्थानैरष्टभिः प्रकारैः शिक्षाशील इत्युच्यते, शिक्षा ग्रहणासेवनारूपशास्त्रं शीलं ते धारयतीति शिक्षाशीलः. तानि अष्टप्रकाराणोमानि-'अहस्सि' अहसनशीलः, पुनः सदा दांतो जितेंद्रियः, पुनर्यो मर्म न उदाहरेत्, य एतादृशो भवति, | स गुरूणां शिक्षायोग्यो भवति, गुणिनो ग्रहणाद गुणानां ग्रहणं कर्तव्यं.॥४॥
000000000000000000000
॥३६१॥
For Private And Personal Use Only