SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३६० ॥ www.kobatirth.org ष्यामि, मे मम कथयिष्यतस्त्वं शृणु ? ॥ १ ॥ अथवा साधोराचारं आकारं बहुश्रुतस्य आकारं, बहुश्रुतः कीदृग् स्यात् ? तत्प्रकटीकरिष्यामि ॥ १ ॥ प्रथमं तत्परिज्ञानार्थं अबहुश्रुतस्य लक्षणमाह ॥ मुलम् ॥ - जे यावि होइ निविजे । थद्धे लुद्धे अणिग्गहे ॥ अभिक्खणं उल्लवइ । अविणीए अबहुस्सुए ॥ २ ॥ व्याख्या - यश्च यो मनुष्यो निर्विद्यो भवति, अपिशब्दात् यः सविद्यो वा भवति, स चेत् स्तब्धोऽहंकारी भवति, पुनर्लुब्धो भवति, रसादिषु लोलुपो भवति, पुनयोऽनिग्रह इंद्रियदमनरहितो भवति, पुनर्योऽभीक्ष्णं वारंवारं उल्लपति, उत्प्राबल्येन यथातथा अविचारितं लपति, वाचालो भवति, स पुरुषोऽविनीतो विनयधर्मरहितोऽबहुश्रुत उच्यते सविद्योऽपि अबहुश्रुतः चेत् स्यात् स विद्यत्वस्य फलं न प्राप्नुयात्, तद्विपरीतो बहुश्रुतः स्यात् ॥ २ ॥ अबहुश्रुतस्य कारणमाह ॥ मूलम् ॥ — अह पंचहिं ठाणेहिं । जेसिं सिक्खा न लप्भइ ॥ थंभा कोहा पमाएणं । रोगेणालस्सेण य ॥ ३ ॥ व्याख्या - अथ श्रोतुः पुरुषस्य उत्कीर्णताकरणे यैः पंचभिः स्थानैः पंचभिः प्रकारैः शिक्षा ग्रहणासेवनारूपा न लभ्यते, न प्राप्यते तानि पंचस्थानानि श्रृणु इत्यध्याहारः. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 90009066 सटीकं ॥ ३६० ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy