________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
30@@@@
॥३५८॥
@@@
उत्तरोत्तरसंयमस्थानप्राप्त्योन्नतिमेव कृत्वा, कथंभूतं सिद्धिलोकं ? क्षेमं परचक्रायुपद्रवरहितं, पुनः कीदृशं? शिवं सकलदुरितोपशमं, पुनः कोदृशं ? अनुत्तरं सर्वोत्कृष्टमित्यर्थः ॥ ३५॥
॥ मूलम् ॥-बुद्धे परिनिव्वुडे चरे। गामगए नगरे च संजए ॥ संतिमग्गं च बृहए । समयं गोयम मा पमायए ॥३६॥ व्याख्या-हे गौतम! परिनिर्वृतः शांतरससहितः सन् चर? संयम सेवस्व ? कीदृशः? ग्रामे गतो ग्रामगतः, च पुनर्नगरे गतः, चशब्दावने वा स्थितः, पुनः कीदृशः? संयतः सम्यग्यत्नं कुर्वाणः, पुनः कीदृशः? बुद्धो ज्ञाततत्वः, च पुनहें गौतम ! शांतिमार्ग त्वं बृहयेः, भव्यजनानामुपदेशद्वारेण वृद्धि प्रापयेः, अत्र कार्य समयमात्रमपि मा प्रमादीः? ॥ ३६॥
॥ मूलम् ॥-बुद्धस्स निसम्म सुभासियं । सुकहियमट्टपओवसोहियं ॥ रागं दोसं च छिंदिया। सिद्धिं गए गोयमुत्ति बेमि ॥ ३७ ॥ व्याख्या-गौतमः सिद्धिं मुक्तिस्थानं प्राप्तः, किं कृत्वा ? बुद्धस्य श्रीमहावीरदेवस्य सुष्टु शोभनं भाषितं सुभाषितं सम्यगुपदेशं निशम्य श्रोत्रद्वारेण हृद्यवधार्य च, पुना रागद्वेषं च छित्वा, कीदृशं सुभाषितं सुकथितं, सुतरामतिशयेन शोभनप्रकारेणोपमायोगेन
100000000000000000000
@@@@@@@@@
॥३५०
For Private And Personal Use Only