________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥३५७॥
3@@@@@000000000000000
हादिना स्खलन् महावतभारं त्यजन्नबलो भवन् पश्चादंत्ये वयस्यागतः संयमधनरहितो भूत्वा मा पश्चादनुतप्येः, मा पश्चात्तापपीडितो भृया इति विचिंत्य समयमात्रमपि मा प्रमादीः? ॥३३॥ |
॥ मूलम् ॥-तीणोसि अण्णवं महं । किं पुण चिट्ठसि तीरमागओ ॥ अभितुर पारंगमित्तए । समयं गोयम मा पमायए ॥ ३४ ॥ व्याख्या-हे गौतम! त्वमर्णवं भवसमुद्रं तीर्ण एवासि, उलंधितप्रायोऽसि, किं पुनस्तीरमागतः सन् तिष्टसि? औदासीन्यं भजसि. हे गौतम! भवार्णवस्य पारं गंतुमभित्वरस्व? पारगमने उत्तालो भवेत्यर्थः. तीरमत्र मुक्तिपदमुच्यते, तस्मात्समयमात्रमपि मा प्रमादीः? ॥ ३४॥
॥ मूलम् ॥-अकलेवरसेणमुस्सिया । सिद्धिं गोयम लोयं गच्छसि ॥ खेमं च सिवं अणुत्तरं । समयं गोयम मा पमायए ॥ ३५॥ व्याख्या-हे गौतम! त्वं सिद्धिं नामकं लोकं स्थानं गमिष्यसि प्राप्स्यसि, किं कृत्वा? अकलेवरश्रेणिमुत्सृज्य, न विद्यते कलेवरं शरीरं येषां तेऽकलेवराः सिद्धास्तेषां श्रेणिरुत्तरोत्तरप्रशस्तमनःपरिणतिपद्धतिः क्षपकश्रेणिस्तामकलेवरश्रेणिमुत्सृज्य,
1000000000000000000000
IM३५७॥
For Private And Personal Use Only