________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३५६ ॥
40960
2099909
www.kobatirth.org
प्राप्तोऽसि किं कृत्वा ? कंटकपथमवशोध्य, कंटकानां बौद्ध चरकसांख्यादीनां पंथः कंटकपंथः, आकारः प्राकृतिकः अथवा कंटैः कुतीर्थिकैराकीर्णो व्याप्तः कुत्सितपंथाः कंटकापथस्तं परिहृत्य सम्यग्मुक्तिमार्ग राजमार्गमित्र प्राप्तोऽसि हे गौतम! यदि विशेषेण शोधिते निरवद्ये मार्गे गच्छसि तदा सममात्रमपि प्रमादं मा कुर्याः ॥ ३२ ॥
॥ मूलम् ॥ - अबले जह भारवहए । मग्गे विसमेवगाहिया ॥ पच्छा पच्छाणुतावए । समयं गोयम मा पाए ॥ ३३ ॥ - व्याख्या हे गौतम! यथा कश्चिद्भारवाहको विषमं मार्गमवगाह्य विषमे मार्गे | स्वर्णादिभारमुत्पाट्य समे मार्गेऽबलः स्यात्, स च भारवाहकः पश्चाद् गृहमागत्य पश्चादनुतप्यते पश्चात्तापपीडितः स्यात्, कोऽर्थः ? यथा कश्चिद्भारवाहकः शिरसि कतिचिद्दिनानि यावद्विषमे मार्गे स्वर्णादिभारमुद्रहति, तदनंतरं कुत्रचित् पाषाणादिसंकुले मार्गे भारेणाक्रांतोऽहमिति ज्ञात्वा तं भारमुत्सृजति, स च भारवाहकः पश्चाद् गृहमागतः सन् निर्धनत्वेन पश्चादनुतप्यते, पश्चात्तापपीडितः स्यात्, तथा त्वमपि विषमं मार्ग तारुण्यादिवयोविशेषं महाव्रतभारमुद्रा समे मार्गे यौवनात्तारे कुत्रचित्परीष
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
9006650090090
सटोकं
| ॥ ३५६ ॥