________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥३५५॥
nee@960000000000000
भविष्यंति, संप्रति मयि केवलिनि सत्यस्मिन्नैयायिके पथि सर्वथा प्रमादस्त्याज्य एवेति भावः. निश्चित आयो मुक्तिलक्षणो लाभो यस्मिन् स नैयायिको ज्ञानदर्शनचारित्ररूपरत्नत्रयात्मक इत्यर्थः. अथ पुनरप्यस्या गाथाया अयमर्थोऽप्यस्ति-हे गौतमायेदानीं भवान् जिनः केवली न दृश्यते, दृश्यत इति क्रियाबलाद्भवानिति पदमनुक्तमपि गृह्यते, परं बहुभिर्मतो मान्यो ज्ञातो वा बहुमतः, अर्थात्प्रसिद्धो मार्ग इव जिनत्वभवनमागों देशितो मया तवोपदिष्टः, स मार्गस्त्वया विलोक्यत एव, तस्मात् संप्रतीदानीं मयि जिने सति नैयायिके मार्गे मदुक्ते मागें समयमात्रमपि मा प्रमादीः? मयि विद्यमाने सति मयि विषये मोहाद्भवान् जिनो न वर्तते, पश्चात्त्वं जिनो भावी, तस्मादिदानी मद्वचने प्रामाण्यं विधेयमित्यर्थः ॥३१॥
॥ मूलम् ॥-अवसोहिय कंटयापहं । उत्तिन्नोसि पहं महालयं ॥ गच्छसि मग्गं विसोहिय । समयं गोयम मा पमायए ॥ ३२ ॥ व्याख्या-हे गौतम! त्वं महालयं पंथानमुत्तीर्णोऽसि, महान् सम्यग्ज्ञानदर्शनचारित्रलक्षण आलय आश्रयो यस्मिन् स महालयस्तं महालयं, एतादृशं पंथानं राजमार्ग
000000000000000000000
For Private And Personal Use Only