________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥३५४॥
6800
प्रमादं भवान् कुर्यात्, यद्यपि तवेदानी केवलज्ञानं नास्ति, तथाप्यहं विद्यमानोऽस्मीति सांप्रतं संशयाभावेन प्रमादस्त्याज्यः. अग्रे तु मद्विरहे एतादृशा भाविनो भव्यजीवा भविष्यंति ये इति विचिंत्येत्यनुमानप्रमाणं विधाय नैयायिके मार्गे साधुधमें मयि च स्थिरा भविष्यंति, तत्किमनुमानं कृत्वाऽप्रमादिनः स्थिराश्च भविष्यति तदाह-मार्ग इव मुक्तिनगरंप्रति पंथा इव देशितः कथितो मार्गदेशितः, अयं जीवदयाधर्मो मुक्तिमार्ग इव कथितो दृश्यते, अद्येदानीं जिनो न दृश्यते, कथंभूतोऽयं मार्गदेशितः? बहुमतः, बहुभिर्बहूनां वा मतो बहुमतः, अथवा बहवो मता नया यस्मिन् स बहुमतः, नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूढेवंभूतादिसप्तनयात्मकः, ज्ञानदर्शनचारित्राणि | मोक्षमार्गः, अपरमते ह्येकांतवादित्वं, तस्मादयं जैनमतस्तु बहुमतः. एवंविधोऽयं मुक्तिमार्गोऽतींद्रियार्थदर्शिनं जिनं केवलिनं विना न स्यात्, तस्मादस्य बहुमतस्य मुक्तिमार्गस्य, एवं भव्या ज्ञास्यति चेदयं मुक्तिमार्गोऽस्ति जिनो नास्ति, तदास्य मार्गस्य कश्चिद्वक्ताप्यासीत, न च स कश्चिद्वक्तापि सामान्यः, किंत्वस्य धर्मस्योपदेष्टा कश्चिदाप्तो जिन एव भवितुमर्हति, इति मद्विरहेऽप्यप्रमादिनो
tết Gess is bet: 300k
0
@@@@
॥३५४॥
@@
For Private And Personal Use Only