________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥३४९॥
000000000000000000000
॥ मूलम् ॥-धम्मपि हु सदहंतया। दुल्लहिया काएण फासया ॥ इह कामगुणेसु मुच्छिया । समयं गोयम मा पमायए ॥ २०॥ व्याख्या-धर्म जिनोक्तं धर्मं श्रद्दधतः, जिनोक्तमागमं साधुश्राद्धधर्म वा सर्व सत्यमिति जानतोऽपि जीवस्य कायेन शरीरेण, कायग्रहणेन कायसंवद्धयोर्वाङ्मनसोरपि ग्रहणं, तस्मात्कायेन वचसा मनसा च स्पर्शना दुर्लभिका, धर्मक्रियानुष्ठानकरणं दुःकरमित्यर्थः. इह जगति जीवाः कामगुणेषु विषयेषु मूर्छिता लोलुपा भवंति, विषयिणो हि धर्मक्रियाखयोग्याः, हे गौतम! धर्मक्रियानुष्ठानकरणं दुःकरमिति समयमात्रमपि प्रमादं मा कुर्याः? ॥ २० ॥
॥ मूलम् ॥-परिझुरइ ते सरीरयं । केसा पांडुरया हवंति ते ॥ से सोयबले य हायई । समयं गोयम मा पमायए ॥ २१ ॥ व्याख्या-हे गौतम! ते शरीरकं परिजीर्यति, परि समंतात्सर्वप्रकारेण वयोहानिजरया जीर्णत्वमनुभवति, तव पुनः केशाः पांडुरकाः श्वेता भवंति, अत्र ते तवेति कथनात्प्रत्यक्षानुभवेन संदेहो न कर्तव्यः, यथा हस्तकंकणस्यात्मदर्शावलोकनं. यथा तव शरीरं तथा सवेषामेव ज्ञेयमित्यर्थः. से इति तच्छ्रोत्रबलं हीयते हीनं स्यात्, तच्छब्दग्रहणाद्यच्छब्दग्रहणं कर्तव्यं,
000000000000000000000
॥३४९॥
For Private And Personal Use Only