________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
उत्तरा
सटीक
॥३४८॥
Để ©©©©©©©©©©©©©©©©©©
॥ मूलम् ॥ अहीणपंचिंदियत्तपि से लहे । उत्तमधम्मसुइ हु दुल्लहा ॥ कुतित्थिनिसेवए जणे। समयं गोयम मा पमायए ॥ १८॥ व्याख्या–से इति स जीवोऽहीनपंचेंद्रियत्वमपि चेल्लभेत तदापि हु इति निश्चयेनोत्तमधर्मश्रुतिर्दुर्लभा, जिनधर्मस्य श्रवणं दुःप्राप्यमित्यर्थः. तत्र हेतुमाह-जनो लोकः कुतीर्थिनिषेवकः स्यात्, कुतीर्थिनां मिथ्यात्विनां निषेवकः, कुतीर्थिनो हि सत्कारयशोलाभार्थिनो भवंति, ते च प्राणिनां विषयादिसुखसेवनोपदेशेन वल्लभत्वमुत्पाद्य जनान् रंजयंति, अतस्तेषां सेवा सुकरा, तेषां मुखाद्धर्मवार्ता कुत इत्यर्थः.
॥ मूलम् ॥–लब्धूणवि उत्तमं सुई। सद्दहणा पुणरवि दुल्लहा ॥ मित्थत्तनिसेवए जणे । समयं गोयम मा पमायए ॥ १९॥ व्याख्या-उत्तमधर्मस्य श्रुतिमपि लब्ध्वा पुनः श्रद्धा दुर्लभा। तत्त्वरुचिर्दुःप्राप्या, यतो हि जनो लोको मिथ्यात्वनिषेवकः स्यात्, मिथ्यात्वं हि कुगुरुकुदेवकुधर्मलक्षणं नितरां सेवते इति मिथ्यात्वनिषेवकः, तस्मान्मिथ्यात्वोदयाजिनधर्मरुचिर्दुर्लभा, तस्मात्समय
Bu૨૪૮ણ मात्रमपि त्वं मा प्रमादीः? ॥ १९ ॥
1000000000000000000000
For Private And Personal Use Only