________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३४९ ॥
1900906
GOOGGL
www.kobatirth.org
खलु एस कया । भवियजणा विवोहणट्टाए ॥ ३ ॥ यथा हि किसलयानि पांडुपत्रेणानुशिष्यंते तथान्योऽपि यौवनगर्वितोऽनुशासनीयः ॥ १ ॥ अथायुषोऽनित्यत्वमाह -
॥ मूलम् ॥ कुसगो जह ओस बिंदुए। थोवं चिहइ लंबमाणाए ॥ एवं मणुयाण जीवियं । समयं गोयम मा पमायए ॥ २ ॥ व्याख्या - हे गौतम! समयमात्रमपि मा प्रमादीः ? तत्र हेतुमाहकुशस्याग्रेऽवश्यायविंदु लंबमानः सन् स्तोकं स्तोककालं तिष्ठति, वातादिना प्रेर्यमाणः सन् पतति, तथा मनुष्याणां जीवितमायुरस्थिरं ज्ञेयं एवमायुषोऽनित्यत्वं ज्ञात्वा धर्मे प्रमादो न विधेय इत्यर्थः. ॥ मूलम् ॥ इइत्तरियंमि आऊए । जीविए अ बहुपच्चवायाए । विहुणाहि रयं पुरेकडं । समयं गोयम मा पमायए ॥ ३ ॥ व्याख्या – इत्युक्तदृष्टांतेनेत्वरे स्वल्पकालपरिमाणे मनुष्यस्यायुषि भो गौतम ! पुराकृतं रजः प्राचीनकृतं पातकं दुःकर्म विशेषेण धुनीहि ? जीवात्पृथक्कुरु ? हे गौतम ! पुनर्जीवित केऽर्थात्सोपक्रमे आयुषि बहवः प्रत्यवाया उपघातहेतवोऽध्यवसायादयो वर्तते यस्मिंस्तद्बहुप्रत्यवायकं तस्मिन् बहुप्रत्यवायके समयमपि मा प्रमादं कुर्याः ? अत्रायुः शब्देन निरुपक्रममायुर्भ
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
9009999996
सटोकं
॥ ३४१ ॥