________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥३४॥
000000000000000000
॥ मूलम् ॥-दुमपत्तए पंडुरए । जहा निवडइ राइगणाण अच्चुए ॥ एवं मणुआणुजीवियं । समयं गोयम मा पमायए ॥१॥ व्याख्या-भगवान् श्रीमहावीरदेवो गौतमस्वामिनमुद्दिश्यान्यानपि भव्यजीवानुपदिशति-हे गोतमैवमनेन दृष्टांतेन मनुजानां मनुष्याणां जीवितं जानीहि? त्वं | समय समयमात्रमपि मा प्रमादीः? प्रमादं मा कुर्याः? अत्र समयमात्रग्रहणमत्यंतप्रमादनिवारणार्थ,
अनेन केन दृष्टांतेन? तद् दृष्टांतमाह-यथा रात्रिगणानामत्यये गमने, रात्रीणां गणा रात्रिगणाः | कालपरिणामा रात्रिदिवससमूहास्तेषामत्ययेऽतिक्रमे पांडुरकं द्रुमपत्रकं पक्वं वृताच्छिथिलीप्रायं पर्ण निपतति, तथैव दिनानामत्यये आयुर्लक्षणे ते शिथिले जाते सति जीवितं शरीरं पतति, जीवो | जातो यस्मिंस्तजीवितं शरीरमित्यर्थः, जीवितस्य कालस्य विनाशाभावात्, जीवितशब्देन शरीरमुच्यते. यदाह नियुक्तिकारः-परियत्तिय लावन्नं । चलंति संधि मुअंति विंटग्गं ॥ पत्तं वसणं पत्तं । काले पत्ते भणइ गाहं ॥१॥जह तुज्झे तह अम्हे । तुज्झेवि अहो हिआ जहा अम्हे ॥ अप्पाहेइ पडतं ।। पंडुअपत्तं किसलयाणं ॥२॥ नवि अस्थि नवि अ दोही। उल्लावो किसलपंडुपत्ताणं ॥ उवमा
000000000000000000000
॥३४॥
For Private And Personal Use Only