________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोक
॥३३९॥
000000000000000000
तापसानां तु भोजनानंतरं चलितानां भगवत्समीपे प्राप्तानां भगवतश्छत्रादिविभूतिं च पश्यतां तथाविधशुभाध्यवसाययोगेन केवलज्ञानमुत्पन्नं. कोडिन्नतापसानां तु स्वामिनं साक्षाद् दृष्ट्वा तादृशाध्यवसायेनैव केवलज्ञानमुत्पन्नं. गौतमस्वामी भगवच्चरणौ प्रणनाम, ते तापसमुनयः केवलिनस्त्रिःप्रदक्षिणीकृत्य केवलिपर्षदभिमुखं चलिताः. तदा गौतमस्वामी भणतीहागच्छत ? भगवंतं प्रणमत? भगवान महावीरः प्राह गौतम! केवलिनो माशातय? ततो गौतमस्तेषां मिथ्यादृष्कृतं ददौ. ततःपरं गौतमस्य महत्यधृतिर्जाता. ततो भगवान् महावीरः गोतमस्वामिनंप्रत्याह गौतम! पूर्वभ-18 वपरिचितत्वेन तव मयि महान् रागोऽस्ति, तत्क्षयमंतरेण तव केवलज्ञानं नोत्पद्यते, क्षीणे 8 च तस्मिन्नेव भवे तवावश्यं केवलमुत्पत्स्यते, प्रशस्तोऽपि रागः केवलप्रतिबंधको भवत्येव, त्वमहं च द्वावपि निर्वाणे तुल्यौ भविष्याव इति माऽधृति का रिति. तदानीं स्वामी महावीरो द्रुमपत्तयमध्ययनं प्ररूपितवान् . इदं चाध्ययन सूत्रतोऽर्थतश्च भगवताश्रीमहावीरेणैव प्ररूपितमिति श्रीमदुत्तराध्ययनबृहवृत्तो. ततो ये वदंत्युत्तराध्ययनसत्रे वीरवाणास्पोऽपि नास्ति ते कुमतय एव बोधव्याः.
1000000000000000000000
For Private And Personal Use Only