________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३४२ ॥
98065966966069900908
www.kobatirth.org
ण्यते, जीवितशब्देन सोपक्रमं भण्यते. एति प्राप्नोत्युपक्रमहेतुभिरतः प्रवर्त्यतया यथास्थित्यैवमनुभवमित्यायुः, तस्मिन्नायुषि निरुपक्रमे आयुषि स्वल्पपरिमाणेऽपि दुःकृतं दूरीकुरु ? यद्यपि पूर्वकोटिप्रमाणमायुर्भवति, तथापि देवापेक्षया स्वल्पमेव ज्ञेयमतृप्तत्वात्. यदुक्तं — धनेषु जीवितव्येषु । रतिकामेषु भारत । अतृप्ताः प्राणिनः सर्वे । याता यास्यंति यांति च ॥ १ ॥ अत्र सोपक्रमनिरुपकमायुर्ज्ञानं केवलिन एव भवेत्. ॥ ३ ॥
॥ मूलम् ॥ – दुल्ल खलु माणुसे भवे । चिरकालेणवि सव्वपाणिणं ॥ विगाढा य विवागकम्मुणे । समयं गोयम मा पमायए ॥ ४ ॥ व्याख्या –— खल्विति निश्चयेन सर्वप्राणिनां सर्वजोवानां चिरका| लेनापि मनुष्यो भवो दुर्लभो दुःप्राप्यो वर्तते, तत्र हेतुमाह — कर्मणां मनुष्यगतिविघातकानां वि पाका विगाढा विशेषण गाढा विगाढा विनाशयितुमशक्यास्तस्मात्समयमात्रमपि प्रमादं मा कुर्याः. ॥ ४ ॥ कथं मनुजत्वं दुर्लभमित्याह
॥ मूलम् ॥ - पुढविकायमइगओ । उक्कोसं जीवो उवसंवसे ॥ कालं संखाईओ । समयं गोयम
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
3000000699900999969
सटीकं
॥ ३४२ ॥