________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥३३६॥
DREPORo@200000000000
पुंडरीकराजा तदंतिके समागत्यैवमाह धन्यस्त्वं, कृतपुण्यस्त्वं, सुलक्षणस्त्वं, सुलब्धमनुष्यभवस्त्वं, येन राज्यमंतःपुरं च परिहृत्य संयममाहतवान्, एवं द्वित्रिवारं पुंडरीकेणोक्ते प्राप्तलजः पुंडरीकराजानमापृच्छय कंडरीकः स्थविरैः समं ततो विजहार. कियत्कालमुग्रावहारं कृत्वा पश्चात्संयमाद्विखिन्नः शनैः शनैः स्थविरांतिकान्निर्गत्य पुंडरीकिण्यां नगर्यामशोकवाटिकायामशोकवरपादपस्याधः समागत्य शिलापट्टमारूढ उपहतमनःसंकल्पः किंचिद् ध्यायन्नेव तिष्ठति. ततःपुंडरीकोऽपि तत्रागत्य तं त्रिःप्रदक्षिणीकृत्य धन्यस्त्वमित्यायुक्तवान्, कंडरीकस्य तद्वचनं न रोचते, सर्वथा संयमाभ्रष्टं तं ज्ञात्वा पुंडरीकः पुनरेवमुवाचाहो भ्रातस्ते यदि विषयार्थस्तदेदं राज्यं गृहाणेत्युक्त्वा तं राज्येऽभिषिक्तवान्, स्वयं तु पंचमौष्टिकं लोचं कृत्वा संयममुपात्तवान्, कंडरीकसत्कं पात्रोपकरणादिकं च गृहोतवान्. स्थविराणामंतिके प्रव्रज्यां गृहीत्वाहारं गृहीष्ये, नान्यथेत्यभिग्रहं कृत्वा स्थविराभिमुखमेकाक्येव चलितः, कंडरीकस्तु राजगृहांतर्गत्वा तस्मिन्नेव दिने सरसमाहारं भुक्तवान्, रात्रौ च तस्य तदाहारस्य रसात्कृशशरीरस्योदरे महाव्यथोत्पन्ना, न कोऽपि तस्याग्रे मंत्रिसामंतादिकश्चिकित्सार्थ समा
ఆతులు తదితరులతర తరుగుతో
॥३३६॥
For Private And Personal Use Only