________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥३३५॥
0000000000000000006
संयमादिभेमीति वदंतं कंडरीकं पुंडरीको राजा संयमायानुज्ञातवान् . पुंडरीककारितमहामहःपूर्वकं कंडरीकः संयमं गृहीतवान् ; क्रमेण स्थविरांतिके स एकादशांगानि पपाठ. चतुर्थषष्टाष्टमादितपांसि चकार. एकदा तस्य तपस्विनस्तपःपारणके तुच्छाहारैर्दाघज्वरादयो रोगाः प्रादुर्भूताः, तथाप्यसो स्थविरैः समं विहारं चकार.
एकदा ते स्थविराः कंडरीकेण समं विहरंतः पुडरीकिण्यां नगयां समायाताः, नलिनीवने समवसृताः, पुंडरीकराजा तेषां वंदनाय तत्रायातः, स्थविराणां देशनां श्रुत्वा कंडरीकमृर्षि वंदते, तद्वपुः सरोगं पश्यति, पुनः स्थविरांतिके समागत्यैवमवादीद्यदि स्थविराणामाज्ञा स्यात्तदाहं कंडरीकसुनेर्वपुषि प्रासुकौषधादिभिश्चिकित्सां कारयामि, यूयं मम यानशालायां तावत्कालं तिष्ठत? ततस्ते स्थ| विराः कंडरीकेण समं यानशालायां गत्वा स्थिताः. ततःस पुंडरीकराजा कंडरीकस्य प्रासुकौषधैश्चि| कित्सां कारयति, त्वरितमेव तस्य रोगोपशांतिर्जाता, स्थविरास्ततो विहारं चक्रुः, रोगातंकाद्विप्रमुक्तोऽपि कंडरीकमुनिर्मनोज्ञाहारादिभिर्मूर्छितस्ततो विहारं कर्तुं नेच्छति, कंडरीकस्य तादृशं स्वरूपमाकर्ण्य
10000000000000000000
॥३३५॥
For Private And Personal Use Only