________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
nosẽ sa tết 06006
याति, प्रव्रज्यापरित्यागादयोग्य इत्ययं सर्वेरपि लोकैरुपेक्षितः, स आर्तरौद्रध्यानोपपन्नः कालं कृत्वा सप्तमनरकपृथिव्यां नारकत्वेनोत्पन्नः. पुंडरीकस्तु स्थविरांतिके गत्वा पुनर्दीक्षां गृहीतवान्, प्रथममष्टमं तपः कृतवान्, पारणे च शीतलरूक्षाहारेण वपुषि महावेदना समुत्पन्ना, ततस्तेनानशनं विहितं, चत्वाार शरणानि कृतानि, आलोचितप्रतिक्रांतः पुंडरीकः कालं कृत्वा सर्वार्थसिद्धविमाने देवत्वेनोत्पन्नः, इममाख्यानं वैश्रमणाग्रे उक्त्वैवं पुनरुवाचाहो देवानुप्रिय! दुर्बलशरीरोऽपि कंडरीकः सप्तमी भूमि गतवान्, सबलशरीरोऽपि पुंडरीकः सर्वार्थसिद्धिविमाने गतस्तस्माद् दुर्बलशरीरं संयमसाधनं | तद्वयाघातकं वा, एवं नियमोनास्ति, किंतु ध्यानमेव तत्साधनं, यस्य शुभध्यानं स संयमाराधकः, यस्य तु ध्यानमशुभं स संयमविराधकः.
एवं गौतमस्वामिव्याख्यानं श्रुत्वा वैश्रमणो वंदित्वा स्वस्थानं गतः, गौतमः प्रभाते चैत्यानि नमस्कृत्याष्टापदात्प्रत्यवतरतिस्म, तापसास्तदैवमाहुए॒यमस्मद्गुरवो वयं भवच्छिष्या भवामः, तदा | गोतमस्वामी भणति मम धर्माचार्यस्त्रिलोकगुरुर्वर्धमाननामास्ति, ते च भणंति युष्माकमप्याचार्यों
000000000000000000000
॥३३७॥
For Private And Personal Use Only