________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३३१ ॥
3000
www.kobatirth.org
मातापितरौ पृष्टो, ताभ्यामुक्तं यदि त्वं प्रत्रजिष्यसि तदा वयमपि प्रत्रजिष्यामः ततः पुत्रं राज्ये स्थापयित्वा गांगलिराजा स्वमातृपितृभ्यां सह प्रत्रजितः गौतमस्वामी तैः शिष्यैः सह पश्चादलितः, मार्गे शालमहाशालयोः शुभाध्यवसायेन केवलज्ञानमुत्पन्नं, पुनरग्रे गच्छतां गांगलिप्रमुखाणां त्रयाणामपि शुभध्यानेन केवलज्ञानमुत्पन्नं. एवं सर्वेऽपि ते गौतमसहिताश्चंपायां गताः. गौतमस्वामिना भगवच्चरणौ प्रणतौ, शालमहाशालादिकेवलिनो भगवतः प्रदक्षिणां कृत्वा तीर्थं प्रणम्य केवलपर्षदभिमुखं चलिताः, तावदुत्थितो गौतमस्तान्प्रत्येवं भणति भोः शिष्याः क्व व्रत ? वंदत तीर्थकरं ? तावता भगवान् प्राह गौतम ! केवलिनो माशातयेति भगवद्वचसा गौतमस्तान् क्षामयति, मनस्येवं च चिंतयति, अहं न सेत्स्यामि, मदीयाः शिष्याः केवलज्ञानमासादयंति, किंव यावन्मया केव लज्ञानं न प्राप्तं इतोऽवसरे मिथो देवानामेवं संलापो वर्तते यदद्य भगवता व्याख्यानावसरे एवमादिष्टं यो भूमिचरः स्वलब्ध्याष्टापदाद्रौ चैत्यानि वंदते स तेनैव भवेन सिद्धिं यातीति श्रुत्वा गौतमः स्वामिनं पृच्छति हे भगवन्नहमष्टापदे चैत्यानि वंदितुं यामीति भगवतोक्तं व्रजाष्टापदे ? तत्र चै
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
90000606960००८
सटीकं
॥३३१॥