________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥३३०॥
BR-6000000000000019
|णोपासिका जाता, भगवांस्ततो विहारं चकार. शालमहाशालमुनी एकादशांगान्यधोतो, भगवान् राजगृहे समवसृतः, तत्रानेकभव्यान् प्रतिबोध्य स्वामी चंपायां गतः, तत्र शालमहाशालौ स्वामिनंप्रत्येवमूचतुर्यदि भवदाज्ञा स्यात्तदा वयं पृष्टिचंपायां व्रजोमः, यदि कश्चित्तत्र प्रतिबुध्यते सम्यक्त्वं वा लभते तदास्माकं महान् लाभो भवतीति. स्वामिना तदा तयोर्गौतमः सार्थे दत्तः, गौतमस्वामी ताभ्यां सह पृष्टिचंपायां गतः, तदा गांगलिराजा पितृमातृभ्यां पिठरयशोमतीभ्यां सह वंदितुमायातः, समागतायां पर्षयेवं देशनां चकार
भो भव्याः ! विषयप्रसक्ता मा तिष्टत? अनेकदुःखदारुणे संसारे प्रतिबंधं मा कुरुत? कष्टेन मनुष्यादिसामग्री प्राप्तास्ति, संध्याभ्ररागसदृशो यौवनादिप्रपंचोऽस्ति, क्षणदृष्टो नष्टः सकलसंयोगोऽस्ति, जलबिंदुचंचलं जीवितमस्ति, ततो जिनधर्म प्रकाममुद्यमं कुरुत? तथाकृतेऽचिरेण शाश्वतपदप्राप्तिर्भवतां भवतोति गौतमदेशनां श्रुत्वा गांगलिः प्रतिबुद्धो भणति, भगवन्नहं भवदंतिके प्रव्रज्यां गृहीष्ये, नवरं मातापितरौ पृच्छामि, ज्येष्टपुत्रं च राज्ये स्थापयामि. एवमुक्त्वा गृहे गत्वा
00000000000000000000६
॥३३०॥
For Private And Personal Use Only