________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥३२९॥
360000000000000000006
पृष्टिचपा नाम्नी नगरी, तत्र शालनामा राजा, महाशालनामा युवराजः, तयोर्भगिनी यशोमती,
सटोक तस्याः पिठरनामा भर्तास्ति, यशोमतीकुक्षिसंभूतः पिठरपुत्रो गांगलिनामा वर्तते. अन्यदा भगवान् श्रीमहावीरस्तत्र समवसृतः, शालराजा महाशालादिपरिवृतस्तत्रागतो भगवंतं वंदित्वाग्रे धरणीतलोपविष्टः श्रीमहावीरकृतामिमां देशनामशृणोत्-मानुष्यादिका धर्मसाधनसामग्री दुर्लभास्ति, मिथ्यास्वादयो धर्मप्रतिबंधहेतवो बहवो वर्तते, महारंभादीनि नरककारणानि संति, जन्मादिदुःखप्रचुरः संसारोऽस्ति, कषायाः संसारपरिभ्रमणहेतवः संति, कषायपरित्यागे च मोक्षप्राप्तिरिति भगवदेशनां श्रुत्वा संवेगमुपागतः शालराजा जिनेंद्रप्रत्येवमुवाच, भगवच्चरणमूलेऽहं तपस्यामादास्ये, परं महाशालं यावद्राज्ये स्थापयामि तावत् श्रीभगवद्भिरन्यत्र विहारो न कार्यः. भगवतोक्तं प्रतिबंधं माकार्षीरिति शालराजा गृहे गत्वा महाशालं भ्रातरं प्रत्येमाह बंधो! त्वं राज्यं पालय? अहं व्रतं गृह्णामि, महाशाल उवाच भवद्वदहं संविनोऽस्मि, अलं महारंभहेतुना राज्येन, ममापि प्रव्रज्याग्रहणमनोरथोऽस्ति. तदा 10॥३२९॥ शालराज्ञा भगिनीपुत्रो गांगलिः स्वराज्येऽभिषिक्तः, शालमहाशालौ द्वावपि प्रत्रजितौ, भगिनी श्रम
30000000000000000000
For Private And Personal Use Only