________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥२९॥
ETTĩa Trang
आहारदूषणस्यादर्शनाच्च, पुनस्तथा नासन्नस्तिष्टेत्, आसन्ने न तिष्टेदपरभिक्षुणामप्रीतिसंभवात्, पुनरन्येषां भिक्षुकापेक्षया गृहस्थानां चक्षुःस्पर्शतश्चक्षुःस्पर्श न तिष्टेत्, यथाऽन्ये भिक्षवो गृहस्थस्य चक्षुःस्पर्श तिष्टंति तथा न तिष्टेदित्यर्थः. कथं तिष्टेत्तदाह-एकांतदेशे यथा गृहस्थ एवं न जानाति, अयं साधुरन्यभिक्षुनिर्गमनमिच्छति, एवमेकः पुराजगतभिक्षुकोपरि द्वेषरहितो भक्तार्थमाहारार्थं साधुः पूर्वमागतं तं भिडं लंघयित्वा नातिक्रमेदुल्लंघ्य न प्रविशेदित्यर्थः ॥३३॥ पुनराहारग्रहणविधिमाह
॥ मूलम् ॥-नाइ उच्चे व णीए वा । नासन्ने नाइ दूरओ ॥ फासुअं परकडं पिंडं । पडिगाहिज संजए ॥३४॥ व्याख्या-उच्चैः स्थाने मालादावाहारं न गृह्णीयात्, आहारस्याहारदातुर्वा पतनसंभवात्, च पुनर्नीचैः स्थानेऽपि भूमिगृहादावाहारं न गृह्णीयात्तत्र चैषणायासंभवात्, दायकस्य कष्टादिसंभवावा, अथवात्युच्चैः सरसाहारलब्धेरहं लब्धिमानित्यभिमानरहितः, आहारेऽलब्धेरहं दीनोऽस्मि मह्यं कोऽपि न ददातीति दीनबुद्धिरहित इति भावः. उच्चत्वनीचत्वरहितो नासन्नो नातिनिकटवर्ती, नातिदूरवर्ती, यथायोग्यस्थाने स्थितःप्रासुकं निर्दषणं नवकोटिविशुद्धं परकृतं गृहस्थेनात्मार्थ कृतं पिंडमाहारं
3000000000000000000
॥२९
॥
PHIẾU
For Private And Personal Use Only