________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥३०॥
000000000000000000000
संयतो जितेंद्रियः साधुः प्रतिगृह्णीयात्. ॥ ३४ ॥ अथाहारकरणस्थानमाह
॥ मूलम् ॥-अप्पपाणप्पवीयंमि । पडिच्छिन्नंमि संवुडे ॥ समयं संजए भुंजे । जयं अप्परिसाडियं ॥३५॥ व्याख्या-संयतः साघुरेताशे स्थाने समकं साधुभिः समं ज्यं यतमानः सन् सुरसुर वचवकसकसकुरडकुरडादिशब्दमकुर्वाणः. अपरिसाटितं सिक्थुपातनेन रहितमाहारं भुंजीत, कीदृशे स्थाने ? अल्पबीजे बीजग्रहणोपलक्षणेन सर्वेकेंद्रियरहिते, पुनः कीदृशे? प्रतिच्छन्ने संपातितजीवरक्षाय संवृते पार्श्वतः कटकुट्याद्याच्छादिते, अन्यथा रंकादिदीनयाचकादीनां याचने दानाभावे निंदाया उत्पत्तेः प्रदेशसंभवात्, दाने सति पुण्यबंधसद्भावात्, तस्मान्निरवद्यस्थाने आहारं कुर्यात्. ॥३५॥ अथाहारकरणप्रस्तावे वाग्यतनामाह
॥ मूलम् ॥-सुकडित्ति सुपक्कित्ति । सुच्छिन्ने सुहडे मडे ॥ सुनिट्टिए सुलहिति । सावज्जं वजए मुणी ॥ ३६॥ व्याख्या-मुनिरेतादृशं सावयं सपापं वचनं वर्जयेन्न ब्रवीदैतादृशं, कीदृशं तदा| ह-सुकृतमिदमन्नादि, पुनः सुपक्वं घृतपूरादि, सुच्छिन्नमिदं शाकादि सुहृतं कारेल्लकादिस्थं कटुक
00000000000000000
For Private And Personal Use Only