________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥३२३॥
+ ធ្វើឱ្យវថ្ងៃថិជុំវិញថ្ងៃធ្វើពីខ្ញុំ
णाभिधे पुरे दृढशक्तिखेचरस्य पुत्री कनकमाला बभूव, प्राप्तयौवनां तामेकदा वीक्ष्य कंदर्पतप्तो वासवनामा कश्चित् खेचरोऽपहृत्य तामत्र महाद्री मुक्त्वा स्वचित्ते प्रमोदं बभार, अत्र विद्याबलात्समयां सामग्री विधाय स वासवविद्याधरो यावद्गंधर्वोद्वाहाय समुत्सुकोऽभवत्तावत्कनकमालाग्रजस्तदनुपदिकस्तत्रायातो वासर्व विद्याधरमधिक्षिप्तवान्, तो द्वावपि कोपाद् घोरं युद्धं कुर्वाणी परस्परप्रहारातों मृतो, कनकमाला तु भृशं भ्रातृशोकं चकार, तदानीं कश्चिदेवस्तत्रागत्य कनकमालांप्रत्येवमवादीत्, हे पुत्रि! भ्रातृशोकं मुंच ? चित्तं स्वस्थं कुरु ? ईदृश एव संसारोऽस्ति, त्वं मम पूर्वभवे पुत्र्यभूः तिष्ट त्वमत्रैव गिरौ? अत्र स्थितायास्तव सर्वं भव्यं भविष्यति. एवं देववचनमाकर्ण्य कनकमाला चिंतयामास कोऽसौ देवः? कथमस्याहं पुत्री? असौ मयि स्निह्यति, अहमप्यस्मिन् स्निह्यामि, यावदेवं कनकमाला चिंतयति तावत्तजनको विद्याधरेन्द्रो दृढशक्तिनामा धावन् तत्रायातः, स्वपुत्रं स्वर्णतेजसं विरोधिनं वासवविद्याधरं च मृतं दृष्ट्वा, छिन्नमस्तकां च तां पुत्रीं दृष्ट्वैवं विचारयामास, अयं सुत इयं सुतायं शत्रुस्त्रयोऽप्यमोहगवस्था प्राप्ताः, स्वप्नोपमं जगत्सर्वं दृश्यते. एवं ध्यायतस्तस्य दृढशक्तिविद्याधरस्य
09 ta sap 009
३२३॥
For Private And Personal Use Only