________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३२२ ॥
0000
www.kobatirth.org
करसुता तु निरंतरं मध्याह्ने रहस्येकाकिनी कपाटयुगलं दत्वा गृहांतः प्रविश्य पूर्ववस्त्राणि प्रावृत्यात्मानमेवं निनिंद, हे आत्मंस्तवायं पूर्ववेषः, सांप्रतं राजप्रसादादुत्तमामवस्थां प्राप्य गवं मा कुर्याः ? एवमात्मनः शिक्षां ददतीं तां दृष्ट्वा सपत्न्यो राजानमेवं विज्ञपयामासुः, हे स्वामिन्नेषा क्षुद्रा तवानिशं कार्मणं कुरुते यद्यस्माकं वचनं न मन्यसे तदा मध्याह्ने स्वयं तद्गृहे गत्वा तस्याः स्वरूपं विलोकयेति. अथ भूपतिस्तासां वाक्यं निशम्य मध्याह्ने तस्या गृहे गतः, सा तु तथैव पूर्वनेपथ्यं परिधायात्मनः शिक्षां ददती भूपतिना दृष्टा, सर्वाण्यपि तद्वचांसि श्रुतानि तस्या निर्गर्वतां ज्ञात्वा परमं प्रमोदमवाप. स इमां पट्टराज्ञीं चकार, इयं च विशेषान्मनोविनोदं चकार. अन्यदा तन्नगद्याने विमलाचार्यः समायातः राज्ञ्या सह नृपस्तद्वंदनाय तत्र गतः, नगरलोकोऽपि तद्वंदनार्थं गतः, तदा विमलाचार्यो देशनां चकार, चित्रकरसुता नृपश्च द्वावपि प्रतिबुद्धौ. श्रावकधर्मं गृहीतवंतौ, परस्परम|नाबाधया त्रिवर्गसाधनं कुरुतः अन्येद्युस्तया दत्तपंचपरमेष्टिनमस्कारः स पिता मृतो व्यंतरो जातः. कालांतरेणार्हतं धर्ममाराध्य चित्रकरसुता राज्ञी मृता देवीत्वं प्राप, ततश्च्युत्वा वैताढ्थे पर्वते तोर -
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ३२२ ॥