________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोक
॥३२१॥
0000000000000000000004
नृपजीवितरक्षार्थ खजीवितं राक्षसाय दत्वा सुवर्णपुरुषं दापयामि. एवं वारंवारमाग्रहेण पित्रोरनुमतिं गृहीत्वा राजसमीपे गतः, राज्ञा तत्पितुःपादौ शिरसि दापयित्वा खयमाकर्षितखड्गेन पृष्टौ भूत्वा राक्षसस्य समीपं स नीतः, यावता राक्षसो दृष्टस्तावता नृपेणोक्तं भो ब्राह्मणपुत्र! इष्टं स्मर? एवं | नृपेणोक्तः स ब्राह्मणपुत्र इतस्ततो नेत्रे निःक्षिपन् जहास, तदा राक्षसस्तुष्टः प्राह यदिष्टं तन्मार्गय ? स प्राह यदि त्वं तुष्टस्तदा हिंसां त्यज? जिनोक्तं दयाधर्मं कुरु ? राक्षसेनापि तद्वचसा दयाधर्मः प्रतिपन्नः, राजादयोऽपि तं दारकं प्रशंसितवंतः. अथ दासी प्राह हे राज्ञि! तस्य ब्राह्मणपुत्रस्य को | हास्यहेतुः? तयोक्तं सांप्रतं मे निद्रा समायातीत्युक्त्वा सुप्ता, द्वितीयदिने दासीपृष्टा सा राज्ञी प्राह हे हलेऽयं तस्य हास्यहेतुः-तृणां हि माता पिता नृपः शरणं, ते त्रयोऽपि मत्पार्श्वस्थाः, अहं पुनः कस्य शरणं श्रयामीति तस्य हास्यमुत्पन्नमिति परमार्थः. इति नवमी कथा.
एवं साचित्रकरसुता कथाभिर्मुहर्मुहमोहयंती राजानं वशीचकार, राजा तु तस्यामेवासक्तोऽन्यासां राज्ञीनां नामापि न जग्राह. ततस्तस्याश्छिद्राणि पश्यंत्यः सर्वा अपि सपन्यः परमं द्वेषं वहंते, चि
0000000000000000000006
॥३२१॥
For Private And Personal Use Only