________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥३२०॥
0000000000000000000000
| तापसाश्रमं प्राप, तत्र तापसास्तस्य भृशं सत्कारं चक्रुः सा कन्या तापसैस्तस्मै दत्ता, राज्ञा च परिणीता, तां नवोढां कन्यां गृहीत्वा तमेवाश्वमारुह्य पश्चाद्वलितः, अंतरालमार्गे क्वचित्सरःपाल्यां राजा सुप्तो जाग्रन्नेवास्ति, राज्ञी तु सुप्ता निद्राणा च. अथ केनापि राक्षसेन तत्रागत्य नृपस्यैवं कथितं षण्मासान् यावद बुभुक्षितोऽहमद्य त्वां भक्ष्यं प्राप्य तृप्तो भविष्यामि, अन्यथा मद्वांछितं देहि? राज्ञो
क्तं ब्रूहि स्ववांछितं? तेनोक्तं कश्चिदष्टादशवर्षीयो ब्राह्मणः शिरसि पितृदत्तपदस्त्वया खड्गेन हतः सप्तKा दिनमध्ये चेद्दलियते तदाहं त्वां मुंचामि, नान्यथेति. राज्ञा तत्प्रतिपन्नं.
अथ प्रभाते राजा ततश्चलितः कुशलेन स्वपुरे गतः, सैनिकाः सर्वेऽपि मिलिताः, राज्ञा स्वमं| त्रिणे राक्षसवृत्तांतः कथितः, मंत्रिणा सुवर्णपुरुषो निर्माय पटहवादनपूर्व नगरे भ्रामितः, एवं चोद्घोषितं यो ब्राह्मणपुत्रो राक्षसस्य जीवितदानेन नृपजीवितदानं दत्ते तस्य पित्रोरयं सुवर्णपुरुषो दीयते. इयमुद्घोषणा षड्दिनानि यावत्तत्र जाता, सप्तमदिने एकः प्राज्ञो ब्राह्मणपुत्रस्तां निर्घोषणां श्रुत्वैवं मातापित्रोरबोधयत, प्राणा गत्वराः संति, मातापित्रोश्चेद्रक्षां प्राणैः क्रियते तदा वरं, तेनाहं
3000000000000000000000
॥३२०॥
For Private And Personal Use Only