SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ३१९ ॥ www.kobatirth.org पुरुषाः संति, एको निमित्तवेदी, द्वितीयो रथकृत्, तृतीयः सहस्रयोधा, चतुर्थो वैद्यः तत्र निमित्तवेदी दिशं विवेद, रथकृद्दिव्यं रथं चकार, खगामिनं तं रथमारुह्य सहस्त्रयोधी वैद्यश्च विद्याधरपुरे गतौ, सहस्रयोधी तु तं खेटं हतवान् हन्यमानेन खेटेन कन्याशिरश्छिन्नं, तदैव तेन वैद्येन शिर औषधेन संयोजितं राजा पश्चादागतेभ्य एभ्यश्चतुर्भ्यस्तां सुतां ददौ कन्या प्राहैषुमध्याद्यो मया सह चिताप्रवेशं करिष्यति तमहं वरिष्यामीति प्रोच्य सा कन्या सुरंगद्वारि रचितायां चितायां प्रविष्टा, यस्तया सह तत्र प्रविष्टः स तां कन्यामूढवान्. दासी प्राह हे स्वामिनि । चतुर्षु मध्ये कोऽत्र प्रविष्टः ? राज्ञी प्राहाद्य रतिश्रमार्त्ताया मे निद्रा समायातीत्युक्त्वा सुप्ता, द्वितीयवासररात्रौ पुनर्दासीपृष्टा राज्ञी प्राह निमित्तवेदी इयं न मरिष्यतीति मत्वा चितां प्रविष्टस्तामूढवानिति परमार्थः इत्यष्टमी कथा. पुनरपि रात्रौ पृष्टा राज्ञी कथां प्राह-जयपुरे नगरे सुंदरनामा राजास्ति, सोऽन्यदा विपरीताश्वेनैकस्यामटव्यां नीतः, ततो वल्गां शिथिलीकृत्याश्वात्स राजोत्तीर्य तमश्वं कचित्तरौ बध्वा स्वयमितस्ततो भ्रमन् कस्मिंश्चित्सरसि जलं पपौ, तत्रैकां सुरूप्रां तापसपुत्रीं ददर्श, तापसपुत्र्याहूतः स For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 900000000000000000000 सटीक ॥ ३१९
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy