________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Tiến
उत्तरा
सटीक
॥३१८॥
siêu
00000000000000000000
ता. द्वितीयदिनरात्रौ दासीपृष्टा राज्ञो प्राह स चतुर्थ दिनवक्ता पुरुषस्तुर्यज्वरी वर्तते, इति परमार्थः. इति षष्टी कथा. पुनरन्यदा दासीपृष्टा रात्रौ सा राज्ञी कथामाचख्यौ, काचित्स्त्री सपत्नीहरणभयेन निजांगभूषणानि पेटायां क्षिप्त्वा मुद्रां च दत्वालोकभूमौ मुमोच. अन्यदा सा स्त्री सखीनिवासे गता, सपत्नी च विजनं विलोक्य तां पेटामुद्घाट्यानेकाभरणश्रेणिमध्यादेकं हारं निष्कास्य तनयायै ददौ, तनया च स्वपतिगृहे तं सुगुप्तं चकार, कियत्कालानंतरं सा स्त्री तत्रायाता, तां पेटां दरादवलोक्यैवं ज्ञातवती यदस्याः पेटाया मध्यान्मम हारोऽनयापहृत इति सा स्त्री तां सपत्नी चौर्येण दूषयामास, सपत्नी शपथान् करोति, हारापहारं न मन्यते, तदा सा स्त्री तां सपत्नीं दुष्टदेवपादस्पशिपथायाकर्षितवती, तदानी भयभ्रांता सपत्नी तं हारं तनयागृहादानीय तस्यै ददौ. दासी प्राह हे स्वामिनि! तया कथं ज्ञातो हारापहारः? राज्ञी प्राह कल्यरात्री कथयिष्यामीत्युक्त्वा सा सप्ता. द्वितीयदिनरात्रौ पुनस्तया पृष्ठा राज्ञो प्राह सा पेटा स्वच्छकाचमय्यस्तीति परमार्थः. इति सप्तमी कथा. ॥ पुनरपि दासीपृष्टा तयोक्तं-कस्यचिद्राज्ञः कन्या केनापि खेटेनापहृता, तस्य राज्ञश्चत्वारः
4
0
॥३१८॥
-
For Private And Personal Use Only