________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३१७ ॥
19900999509910306650000
www.kobatirth.org
को वरो युक्तः ? दासी प्राहाहं न वेद्मि त्वमेव ब्रूहि ? राज्ञी प्राहाय निद्रा सामायातीत्युक्त्वा सुप्ता. द्वितीयदिनरात्रौ दासीष्टष्टा सावदत्, यस्तस्याः संजीवकः स पिता, यः सहोद्रभृतः स बंधुः, यो भस्मपिंडदाता स तत्पतिरिति चतुर्थी कथा. तथैव रात्रौ नृपे सुप्ते दासीष्टष्टा राज्ञी प्राह कश्चिन्नृपः स्वपत्न्यै दिव्यमलंकारं सुगुप्तभृमिगृहे रत्नालोकात्सुवर्णकारैरजीघटत्, तत्रैकः स्वर्णकारः संध्यां पतितां ज्ञातवान् राज्ञी प्राह हे सखि ! तेन कथं रत्नालोकसहिते सुगुप्तभृमिगृहे यामिनीमुखं ज्ञातं ? दासी प्राह नाहं वेद्मि त्वमेव ब्रूहि ? राज्ञी प्राहाद्य सांप्रतं निद्रा समायातीत्युक्त्वा सुप्ता द्वितीयदिनरात्रौ दासीष्टष्टा राज्ञी प्राह स सुवर्णकारो रात्र्यंधोऽस्तीति परमार्थः इति पंचमी कथा. पुनरेकदा नृपे सुप्ते दासीष्टष्टा राज्ञी प्राह केनापि राज्ञा द्वौ मलिम्लुचौ निश्छिद्रपेटायां क्षिप्त्वा समुद्रमध्ये प्रवाहितो, | कापि तटे सा पेटी लग्ना, केनचिन्नरेण गृहीता, उद्घाट्य तौ दृष्ट्वा पृष्टौ भो युवयोरत्र क्षिप्तयोरय कतमो दिवसोऽयं ? तयोर्मध्ये एकः प्राहाद्य चतुर्थी दिवसः, राज्ञी प्राह हे सखि ! तेन कथं चतुर्थो दिवसो ज्ञातः ? दासी प्राहाहं न वेद्मि त्वमेव वद ? राज्ञी त्वद्य सांप्रतं निद्रा समायातीत्युक्त्वा सु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
90055
9000000000
सटोकं
॥ ३१७ ॥