________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kallassagersuri Gyarmande
उत्तरा
सटोकं
॥३१६॥
000000000000000000000
द्वितीया कथा. ॥ अथ पुनस्तथैव नृपे सुप्ते दासीपृष्टा राज्ञी कथामाह-क्वचिन्निवेशे कश्चिदुष्ट्रश्चरन् कदापि बंबूलतलं ददर्श, तदभिमुखां ग्रीवां कुर्वन्नप्राप्ततरुच्छाखः प्रकामं खिन्नस्तस्यैव बंबूलतरोरुपयुत्सर्ग कृतवान्. तदा दासी राज्ञी पप्रच्छ हे स्वामिनि! कथमेतद् घटते? स्वग्रीवया यो बंबलतरुं न प्राप्तस्तदुपरि कथमसावुत्सर्ग चकार ? राज्ञी प्राहाद्य निद्रा समायाति, तेनैतत्कथारहस्यं कल्यरात्राववश्यं कथयिष्यामीत्युक्त्वा सुप्ता, कल्यदिनरात्रौ तथैव नृपे सुप्ते दासीपृष्टा राज्ञी तत्कथारहस्यमाह स ऊष्ट्रः कूपमध्यस्थं बंबूलतलं ददर्शति परमार्थः. इति तृतीया कथा ॥
पुनस्तथैव नृपे सुप्ते दासीपृष्टा राज्ञी कथामाचख्यौ, कस्मिंश्चिन्नगरे काचित्कन्या भृशं रूपसौभाग्यवती ह्यस्ति ,तदर्थं तन्मातृपितृभ्यां त्रयो वरा आहृताः समायाताः, तदानीं फणिना दष्टा सा कन्या मृता, तया समं मोहादेको वरस्तच्चितां प्रविष्टो भस्मसाइभूव, द्वितीयस्तद्भस्मपिंडदाता तस्मोपरि वासं चकार, तृतीयस्तु सुरमाराध्यामृतं प्राप, तदमृतेन च तच्चिता सिक्ता, कन्यां प्रथमं वरं च सद्योऽजीवयत्, कन्याप्युत्थिता तांस्त्रीन् वरान् ददर्श.राज्ञी दासींप्राह हे सखि! ब्रहि ? तस्याः कन्यायाः
000000000000000000000
॥३१६॥
For Private And Personal Use Only